________________ 388 दिवाकरकृता किरणावलीकलिता पञ्चदशी बौद्धसन्तानद्वात्रिंशिका / समश्या एवैष स्वभावो यदुत काचित् सामग्री निर्विकल्पकं जनयति काचित् सविकल्पकं जनयति, एवं च शब्दप्रभवमपि विज्ञान नातन्मयं किन्तु विकल्पस्वरूपमपि तद्यथार्थज्ञानमेवेत्यत आह न सामग्रीस्वभावोऽयमतो नाज्ञानभेदतः। स्वप्नोपलब्धस्मरणं निवृत्तिश्च न नेत्यपि // 23 // न सामग्रीस्वभावोऽयमिति / न सामग्रीस्वभावोऽयं सर्वस्यापि वस्तुनः स्वस्व कार्य प्रति तत्तत्कार्यं कुर्वन्नैव कारणत्वात् प्रत्येकस्यैव कुर्वन्पात्मनः कार्य जनकत्वे सामग्रो वै अनिकेति नियमानभ्युपगमात् कस्याश्चिन्निर्विक पकजनकत्वं कस्याश्चित् सविकल् कि जनकवमित्येवं सामगोस्वभावो न, ततश्च न यथार्थज्ञानरूपत्वं विकल्पस्य सिध्यतीति, अतः सामग्रीस्वभावनिराकरणात्, अज्ञानमेदतः ज्ञानभिन्नवस्तुविशेषतः, न नेव, स्वप्नोपलब्धस्मरण स्वप्ना कलितपदार्थस्य स्मरणम् , नेत्यपि नेत्याकारिकाऽपि, निवृत्तिः निर्वाण, च पुनः, न अज्ञानविशेषतो नैव, किन्तु तत्तत्कुर्वदात्मककारणादेव तत्तत् कार्यमुपजायत इति निगर्वः // 23 // नन्वेवं सामग्रीस्वभावानुपगमे विषयसंप्रयोगादिनाऽज्ञानविशेषेण यत् किमप्यभीष्टं भवति तन्न स्यात् सामग्र्यन्तर्गततयाऽज्ञानविशेषस्य तत्कार्यकारित्वाभावादित्यत आह न चानिष्टप्रयोगो नः कुशलप्रतिपत्तिवत् / मन्यमानो हि दोषं वा गुणं वा परिकल्पयेत् // 24 // न चानिष्टप्रयोग इति / नः अस्माकं, क्षणिकवादिनां बौद्ध नाम्, अनिष्टप्रयोगः अरिष्टप्रसङ्गः, न नैव, कुशलप्रतिपत्तिवत् यथा कुशलप्राप्तिनं भवति तथाऽकुशलप्राप्तिरपि न भवति, कुशलप्राप्तिनिमित्तस्य रागस्येवाकुशलप्राप्तिनिमित्तस्य द्वेषस्याप्यभावात्, तत् किं कुशलप्राप्त्यकुशलप्राप्ती लोकानामनुभूयमाने अपलप्येते भवद्भिः ? न वस्तुनिबन्धने ते, यस्य स्थिरस्यात्मनस्ते स्यातो तस्यैवाभावात् ? कल्पनानिमित्त ते कल्पना च दोष-गुणानां वारयितुमशक्येत्याशयेनाह-मन्यमानः