________________ दिवाकरकृता किरणावलीकलिता पञ्चदशी बौद्धसन्तानद्वात्रिंशिका / 387 स्थिरात्मप्रतिषेधः पुनरित्यर्थः, न वाङ्मात्रं, किन्तु हेतुप्रत्ययसम्भवात् कारणज्ञानसद्भावादित्यर्थः // 20 // हेतु-प्रत्ययरहितमपि परमतमुररीकृत्य पूर्वापरकोटिविवर्जितं ज्ञानं किमिति नाश्रीयते इत्याह अहेतु-प्रत्ययनयं पूर्वापरसमाभवम् / विज्ञानं तत्समुत्थं कः संव्यवस्येद् विचक्षणः // 21 // अहेतु-प्रत्ययनयमिति। अहेतु-प्रत्ययनयं न विद्यते हेतु-प्रत्ययौ यत्र सोऽहेतुप्रत्ययः अहेतुप्रत्ययश्चासौ नयश्चाहेतुप्रत्ययनयस्तं, पूर्वापरसमाभवं पूर्वापरसमायां पूर्वापरकाले भवः सद्भावो यस्य स पूर्वापरसमाभवस्त, एतादृशं तत्समुत्थं वचनसमुद्भूतं, विज्ञानं को विचक्षणः पण्डितः, संव्यवस्येत् सम्यग् निश्चिनुयात् काक्का न कोऽपि संव्यवस्येदित्यर्थः // 21 // म चैवं वचनं प्रमाणं न भवेत् न भवेदेव, निर्विकल्पकप्रत्यक्षमेव प्रमाण, परम्परया निर्विकल्पकविषयत्वलक्षणसमुत्थत्वेनानुमानमपि प्रमाणं न तु शब्दस्तथा, तर्हि वचनप्रभवं विज्ञानं कीदृशमित्याकाङ्क्षायामाह दर्पणस्थमिव प्रज्ञामुखबिम्बमतन्मयम् / तत्समुत्थं च मन्यन्ते तद्वत्प्रत्ययजन्मनः // 22 // दर्पणस्थमिवेति / तत्समुत्थं वचनप्रभवम् , प्रशामुखबिम्बं प्रजैव मुखं प्रज्ञामुखं तस्य बिम्बं प्रतिबिम्बम् , अतन्मयं प्रज्ञामयं यथार्थज्ञानं नेत्यतन्मयमयथार्थज्ञानं, तदुक्तम् "विकल्पयोनयः शब्दाः विकल्पाः शब्दयोनयः / - कार्य-कारणता तेषां नार्थं शब्दाः स्पृशन्त्यमी // 2 // " इति, दर्पणस्थमिव यथा दर्पणस्थं मुखबिम्ब न मुखमयं किन्तु मुखाभासस्वरूपमेव, तद्वत् तथाविधज्ञानवत्, प्रत्ययजम्मनः स्वलक्षणज्ञानजन्यविमानस्कासन्यवं प्रतिबिम्बस्वकपमन्यन्ते सौगता मभ्युपगच्छन्तीत्यर्थः // 12 //