________________ 386 दिवाकरकृता किरणावलीकरिता पन्चदशी बौद्धसन्तामद्वात्रिंशिका / यस्मात् सर्वधर्माणां क्षणे क्षणेऽविकल्पं निर्वाणमिति व्यवस्थापनतः, निर्वाणमनसां मोक्षाभिलाषिणां, भुक्तः भोगस्य, विप्रतिषेधनात् निराकरणात् स्थिरे आत्मनि ममेयं स्त्री ममायं पुत्र इत्यादि ममत्वाभिमानजनितरागादितो भोगो भवति न तु क्षणिके इति नैरात्म्यभावनं श्रेय इत्यर्थः // 10 // यथा सर्वधर्माणां जन्मवतां क्षणे क्षणे निर्वाणं तथा विज्ञानस्यापि विषयतो जन्मवत इत्याह धर्मवद् विषयेऽन्योऽपि यदा विज्ञानसंभवः / सत्कारेभ्यस्तदा जन्म किं तस्य कुरुते क्षमा // 19 // धर्मवदिति / 'विषयेऽन्योऽपि' इत्यस्य स्थाने 'विषयेभ्योऽपि' इति पाठः, 'सत्कारेभ्यः' इत्यस्य स्थाने संस्कारेभ्यः' इति पाठश्च युक्तः / धर्मवद धर्माणां यथा जन्म तथा, यदा विषयेभ्योऽपि विज्ञानसम्भवः विज्ञानस्योत्पत्तिः, तदा संस्कारेभ्यः पूर्ववासनाभ्यः विषयनिरपेक्षेभ्यः, तस्य विज्ञानस्य, जन्म उत्पत्तिः, किं क्षमा कुरुते अत्र क्षमा किं करोतु, मा वासनाभ्यो ज्ञानं जायतामित्येवं निवारणे न क्षमायाः सामर्थ्यमित्यर्थः // 19 // ननु 'नित्यं विज्ञानमानन्दं ब्रह्म' इति वाक्यतः त्रिकालवृत्तिज्ञानं सिध्यतीति न तस्य जन्म-विनाशौ भवत इत्यत आह न पूर्वा न परा कोटिः विद्यते वाफलं मतेः। पूर्वविप्रतिषेधस्तु हेतुप्रत्ययसम्भवात् // 20 // न पूर्वेति / मतेः ज्ञानस्य, न पूर्वा कोटिः विद्यते प्रागभावलक्षणा पूर्वा कोटि न विद्यते, तेम ज्ञानस्य जन्म म भवतीत्यनादिज्ञानं, परा कोटित्व सलक्षणा न विद्यते, तेन ज्ञानस्य नायो न भवतीत्यमन्तं ज्ञानम् , वाहफल वाचां क्लिसितं वाग्मात्रम् , तत्र युक्तरभावात् अपौरुषेयतयैव बेदस्य प्रामाण्यं परैरुक्षुष्यते तच्च म सम्भवतीति, मनु स्थिरात्मप्रतिषेधोऽपि भक्तो वाफळमेवेत्यत माह-पूर्ववित्रतिषेधस्त्विति सर्वधर्मक्षणिकस्यव्यवस्थापनेन