________________ दिवाकरकृता किरणावलीकलिता पञ्चदशी बौद्धसन्तानद्वात्रिंशिका / 385 संसारे सतीति / संसारे सति जन्मनि सति, निर्वाण विनाशः यत्रोत्पत्तिमत्त्वं तत्र विनाशित्वमित्येवमुत्पत्तिमत्त्व-विनाशित्वयोर्व्याप्तेः, एवं च क्षणिकस्य क्षणमात्रवर्तिनः, कुतः कस्मात्, गतिः ऊर्ध्वलोकाधोलोकादिगमनम्, स्थैर्ये सत्येव पूर्वस्थानात् स्थानान्तरप्राप्तिनिमित्तक्रियाया उपपत्तेः, तेन उक्तहेतुना, चित्तस्य विज्ञानस्वरूपात्मनः, जन्मवत् जन्म यथा संस्कृतं तथा, निर्वाणमपि विनाशलक्षणनिर्वाणमपि, संस्कृतं तात्कालिकम्, कियत्कालस्थितिकस्य हि कियत्कालमसंस्कृतं रूपं ततश्च संस्कृतं, न त्वेवं क्षणिकस्य, तस्य तु यद् रूपं तत् संस्कृतमेव भवतीति // 17 // संस्कृतस्वरूपोपादानफलमुपदर्शयति यत् संस्कृतमनित्यं तद् भङ्गादन्योऽन्यसंस्कृतम् / निर्वाणमनसामस्मादुक्तिविप्रतिषेधनात् // 18 // यत् संस्कृतमिति / यत् संस्कृतं यत् केनापि धर्मेण संस्कृतं तद्धर्मस्य पूर्वमभावादुत्पत्तिमत्त्वेन, अनित्यं तदिति तद्धर्मसंस्कृतं तदनित्यमित्युपदर्शनं व्याप्तेः कथं जन्मवत् क्षणं तन्निर्वाणं च संस्कृतमित्याकाङ्क्षायामाह-भङ्गादन्योऽन्यसंस्कृतम् भङ्गाद् विनाशाद् जन्मवद् वस्तु तन्निर्वाणं च परस्परसंस्कृतं, निर्वाणमत्र नैयायिकमत इव नोत्पत्तिमद् विनाश्यतिरिक्ताभावस्वरूप स्थिरस्य कस्यचिदनभ्युपगमात् नापि शशशङ्गादिवत् तुच्छरूपमेव तस्य सर्वधर्मानास्पदत्वेन द्वितीयक्षणे ध्वंस इत्यादि व्यवहाराविषयत्वात् , किन्तूत्तरोत्तरक्षणस्वरूप एव पूर्वपूर्वक्षणस्य विनाशः तस्य विनाशित्वेऽपि न प्रतियोग्युन्मजनप्रसङ्गः तद्विनाशपरम्परायामपि तद्विनाशत्वाभ्युपगमात्, एवं च स्वप्रतियोगिकविनाशस्वरूपत्वेनोत्तरक्षणात्मकनिर्वाणं जन्मवत् पूर्वक्षणसंस्कृतम् जन्मवत् पूर्वक्षणं चोत्तरक्षणस्वरूपनिर्वाणप्रतियोगित्वेनोत्तरक्षणस्वरूपनिर्वाणसंस्कृतं, न हि ध्वंसात्मकाभावं विना प्रतियोग्यमित्येवं निरूपयितुं शक्यः, कस्य प्रतियोगीत्येवमाकाङ्क्षायाः सद्भावात्, एवं प्रतियोगिनमन्तरेण ध्वंसोऽपि न निस्पयितुं शक्यः, कस्य ध्वंस इत्याकाङ्क्षायाः सद्भावान्निराकाङ्क्षोभयप्रतोतेरन्योऽन्यसंस्कारादेवोपपत्तेः, 'अस्मादुक्तिः' इत्यस्य स्थाने 'यस्माद् भुक्तेः' इति पाठो युक्तः /