SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ 384 दिवाकरकृता किरणावलीकलिता पश्चदशी बौद्धसन्तानद्वात्रिंशिका / यदि विनाशः स्यात् तदा स्वोत्पत्त्यव्यवहितोत्तरक्षणवृत्तित्वं सप्रतियोगित्वलक्षणं. क्षणिकत्वमुपपद्येत, अनुपलम्भाच्च नोत्पत्त्यव्यवहितोत्तरक्षणे विनाश इत्यत आहनिर्वाणाच्च अन्तक्षणे विनाशदर्शनान्निर्हेतुको विनाशः प्रतियोग्युत्पत्तिद्वितीय.क्षणेऽपि, पूर्वोत्तरक्षणयोः सौसादृश्याच्च जायमानोऽपि विनाशो नोपलभ्यत इति, अत्र निदर्शनं प्रदीपवत् प्रदीपस्यान्ते नाशदर्शनं समस्ति पूर्व तु नाशो नोपलभ्यते अथापि तैलवर्तिकादिकारणानां पूर्वमप्यपचीयमानतादर्शनेन कार्यस्यापि विनाशो भवत्येवेत्यवगम्यते, किन्तु प्रदीपसन्ततिगतानां प्रदीपानां सौसादृश्याद् मेदानुपलब्ध्या नाशो नोपलभ्यते तथाऽन्यसन्तानेऽपीत्यर्थः / / 15 // नैकस्यैव कस्यचित् स्वोत्पत्त्यनन्तरं विनाशः किन्तु धर्ममात्रस्य, निर्विकल्पकानुभवोऽपि तस्य भवत्येव, विकल्पाभावाच्च न क्षणे क्षणे विनाशे तस्य प्रामाण्यं यस्मिन् विषये विकल्पोत्पादकत्वं तस्य तत्रैव प्रामाण्यमिति हि बौद्धानां डिण्डिम इत्याह निर्वाणं सर्वधर्माणामविकल्पं क्षणे क्षणे / हेतुप्रत्ययभेदात् तु तदन्त इव लक्ष्यते // 16 // . निर्वाणं सर्वधर्माणामिति / "क्षणे क्षणे सर्वधर्माणामविकल्पं निर्वाणम्, तत्तु हेतुप्रत्ययमेदादन्ते लक्ष्यत इव'' इत्यन्वयः / क्षणे क्षणे प्रतिक्षणम्, सर्वधर्माणां वस्तुमात्रस्य तत्तत्कालोत्पन्नस्य, अविकल्पं विकल्परहितं निर्विकल्पकप्रत्यक्षगम्यमिति यावत् , निर्वाणं विनाशः, तत् तु निर्वाणं पुनः, हेतुप्रत्ययमेदात् कारणज्ञानभेदात्, अन्ते सन्तत्यवस्थाने, लक्ष्यते इव सविकल्पकज्ञानगोचरो भवतीव, यद्यपि अन्ते चरमस्यैवैकस्य विनाशो ज्ञायते तथापि चरमस्येव पूर्वपूर्वस्यापि हेतुप्रत्ययमेदोऽस्त्येवेति ततः चरमस्य विनाशावगतिरिव पूर्वपूर्वविनाशावगतिरपीत्यवबोधनायोक्तमिवेति // 16 // क्षणिकस्य सतो गतिर्न सम्भवतीत्याह संसारे सति निर्वाणं क्षणिकस्य गतिः कुतः / जन्मवत् तेन चित्तस्य निर्वाणमपि संस्कृतम् // 17 //
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy