________________ दिवाकरकृता किरणावलीकलिता पञ्चदशी बौद्धसन्तानद्वात्रिंशिका। 383 ष्ठितम् स्वस्वामिभावाधाराधेयभावादिकः सर्वोऽपि सम्बन्धः सविकल्पकगोचरः सविकल्पकश्च न प्रमाणमिति निगर्वः / / 13 // ___ कार्य-कारणभावाद्यवधारणमप्येकेन ज्ञानेन न संभवति यदा कारणं तदा न कार्यमिति कारणविज्ञानं कार्य नाकलयति कार्यविज्ञानमपि कारणं न गोचरयति सम्बन्धिनोरेकेनाग्रहणे सम्बन्धस्याप्येकेन ग्रहणासम्भवादित्याशयेनाह हेतुपत्ययवैचित्र्यात् तानेवमिति भक्तयः / कथं हि संप्रधार्येत भावो भावविशेषतः // 14 // हेतुप्रत्ययवैचित्र्यादिति। हेतुप्रत्ययवैचित्र्यात् हेतु-प्रत्यययोः कारणज्ञानयोलक्षण्यात्, एवं तान् एवं प्रकारकात्, कार्य-कारणभावादीन् , इति भक्तयः एतादृशा विभागाः, स्युरिति शेषः, किन्तु तदवधारणं दुश्शकम् , हि यतः, भावविशेषतः एतस्माद् भावात् , भावः अस्य कार्यस्य भावः, कथं केन प्रकारेण, संप्रधार्येत निश्चियेत न कथञ्चिदित्यर्थः / / 14 // संप्रधारणाभावमेव द्रढयतिसंमोहात् स्मरणात् तत्त्वकलाभावान्न कर्मणः / क्षणिकत्वादिशुद्धेश्च निर्वाणाच्च प्रदीपवत् // 15 // संमोहादिति / अनेन कारणसमुदायेनामु कार्यमुत्पादयिष्यामीति बुद्धावा. कलय्य कर्मविशेषेण कारणसमूहमेकत्र सम्मेलयित्वा कार्यमुत्पादयतीति तथाविधात् कर्मणः संप्रधार्यतेति न, सम्मोहात् इदमत्र सम्पादितमिदं च सम्पादयितव्यमिति भ्रंशात्, कथमेवंकारणसमुदाये एकीकृतेऽपि कार्य न जायते इत्येवं कश्चित् कालं मुग्धस्य चिन्तातरलितमनसः, स्मरणात् चैत्र एतादृशकार्योत्पादनायैवं कृतवान् मया तु नैवं कृतमित्यादिस्मरणात्, वस्तुनो वस्तूत्पद्येतापि कर्म तु कस्त्वेव न भवति स्थिरे तावत् कर्मसम्भवो वस्तुमात्रं च क्षणिकमिति निरन्तरक्षणिकसन्ततेभिन्नभिन्नदेशे उत्पत्तित एव कर्मव्यवहारोपपत्तेरलं कर्मकल्पनयेति, तत्त्व कलाभावात् तत्त्वांशस्याप्यभावात्, ननु स्थैर्य प्रत्यभिज्ञानादिप्रमाणसिद्धमिति स्थिरे वस्तुनि पूर्व देश परित्यज्योत्तरदेशप्राप्तिन विना कर्मेति, कर्मणः वस्तुत्वमेवेत्यत आह-क्षणिकत्वादिशुद्धश्च क्षाणिकत्वादिनिर्णयाच्च ननूत्पत्त्यनन्तरक्षणे