________________ 382 दिवाकरकृता किरणावलीकलिता पञ्चदशी बोद्धसन्तानद्वात्रिंशिका / स्कन्धस्यैवात्मस्थाने अभ्युपगमे तत्रैव रागादिसद्भावादीदृशनैरात्म्यदर्शनतो म मुक्तिरित्याशङ्कन्मूलनायाह स्कन्धप्रकारं पश्यन्तो जगत्पुष्पोपकारवत् / किमस्तीत्युपगच्छेयुः किमेव तु ममेति वा // 12 // स्कन्धप्रकारमिति / जगत्पुष्पोपकारवत् जगतां जन्तूनां पुष्पोपकारः पुष्पस्य सुगन्धघ्राणलक्षणोपकारस्तात्कालिकोऽस्थायित्वान्नोत्तरकाले किमपि फलमादधातीति न तत्र स्थिर फलाभिलाषिणां रागस्तथा, स्कन्धप्रकारं रूपस्कन्धविज्ञानस्कन्धादिपञ्चप्रमेदम् , पश्यन्तः क्षणिकतयाऽवलोकयन्तः प्रमातारः, किमस्तीत्युपगच्छेयुः अस्तित्वेन स्थिरत्वेन रूपेण किं स्वीकुर्युः, न किञ्चित् स्वीकुर्युः, वा अथवा, किमेव तु किं वस्त्वेव पुनः, मम ममेदं पुत्र-कलत्रादिकमित्येवम् स्वीकुर्युः, किमपि वस्तु ममेति बुद्धथा न स्वीकुर्युः तथा च स्कन्धप्रकारदर्शनेन क्वचिदपि राग-द्वेषादिकं निर्वाणपरिपन्थीत्यर्थः // 12 // यदा बुद्धेन पञ्चस्कन्धरूपतया पदार्था निरूपितास्तथा पञ्चायतनरूपतयाऽपि तत्रापि नैरात्म्यदर्शनं मुक्तिसाधनं भवत्येव रागादेर्मुक्तिप्रतिपन्थिनोऽभावादित्याशयेनाह बाह्यमायतनं नात्मा यथा नेत्रादयस्तथा / तद्विकल्पगतिश्चित्त-मनः कस्यात्र किं यथा // 13 // बाह्यमायतनमिति / यथा येन प्रकारेण, नेत्रादयः नयनादयो बाह्या आत्मान भवन्ति, तथा तेनैव प्रकारेण, बाह्यमायतनं नात्मा भात्मा न भवति स्थिरस्वरूपं सत्त्वं न भवतीति यावत् यदाऽऽत्मैव नास्ति तदा चित्त-मन:प्रभृति कमपि वस्तु न कस्यापि सम्बन्धोति तत्प्रभवराग-द्वेषादिकमपि न कस्यापीत्याह-तद्विकल्पतः आयतनविकल्पप्रसारः, चित्त-मनः चेतयतीति चित्तं मनुते मन्यते वा मनोऽन्तःकरणम् , अत्र आयतनस्वरूपे जगति, कस्य स्यात्, कि यथा किमिव न कस्यापि किमपि सम्बन्धि, सर्व स्वप्रतिष्ठितं नान्यप्रति