SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता पञ्चदशी बौद्धसन्तानद्वात्रिंशिका / 381 घटज्ञानं पटज्ञान मठज्ञानमित्येवं विभिन्नाकारत्वलक्षणं वैलक्षण्यं तथा, रूपकार्यस्य रूपलक्षणोपादेयकार्यस्य रसादिलक्षणस्य ज्ञानादिलक्षणस्य वा सहकार्यस्य, क्षणे क्षणे प्रतिक्षणं, वैलक्षण्यं ततो ज्ञानं यथा क्षणिकं तथा रूपादिकमपीति, तद्धि रूपकार्य तु, जात्यन्तरं कारणीभूतरूपजातीयाद् भिन्नजातीय तथा च विजातीयस्य क्षणान्तरे विलक्षणस्य भावेऽपि न रूपस्य विलक्षणस्य भाव इति न क्षणे क्षणे रूपकार्यस्य वैलक्षण्यं तत्राह- तुल्यं चित्तस्यापि द्वितीयक्षणे यद् भवति तन्न चित्तजातीय किन्तु तदन्यजातीयमिति चित्तस्यापि क्षणे क्षणे वैलक्षण्यं न स्यादिति समानचित्तस्य द्वितीय क्षणे चित्तआतीयमेवानुभूयते नान्यजातीयमिति क्षणे क्षणे चित्तस्य वैलक्षण्यं न बाध्यतीति चेत् तर्हि रूपसन्ततौ द्वितीय-तृतीयाद्युत्तररूपकार्यजातस्य रूपसजातीयस्यानुभवान्न तद्धि आतीयमिति रूपकार्यस्य क्षणे क्षणे वैलक्षण्यं न बाधितमित्याह-न बाध्यति क्षणे क्षणे रूपकार्यस्य वैलक्षण्यं न बाधामनुभवति, कुतो न बाधामनुभक्तीत्याकाङ्क्षायामाह-उपपत्तितः तत्साधकयुक्तितः यथा युक्त्या क्षणिकत्वं सिद्धथति तथैव युक्त्या क्षणे क्षणे वै लक्षण्यं सिद्धयतीत्यर्थः // 10 // शून्यतायां बौद्धमतपर्यवसानमुपदर्शयतिसत्त्वोपचारौ व्युच्छिन्नौ स्कन्धानां पञ्चकल्पवत् / शून्यता वा प्रतिष्ठत्वादेतदेव प्रपश्चितम् // 11 // सत्त्वोपचाराविति / वा अथवा, सत्त्वोपचारौ सत्त्वमात्मा उपचारश्च कारणे कार्यतादात्म्याध्यासादिः सत्त्वोपचारौ तो, व्युच्छिन्नौ युक्त्या बाधितत्वादसदूपौ, स्कन्धानां समुदायानां, स्कन्धादिभेदेन पञ्चकल्पवत् पञ्चविकल्पनं यथायुक्त्या व्युच्छिन्नं समुदायः प्रत्येकतो भिन्नमभिन्नं वेत्यादि विकल्पनेन तथा सत्त्वोपचारावीति, तदा शून्यता माध्यमिकाभिमता सर्वशून्यता सिध्यतीति शेषः, प्रतिष्ठत्वात् युक्त्या व्यवस्थितत्वात् पूर्णताया बाधे शून्यताया एव व्यवस्थितिः, एतदेव अनन्तरोपदर्शितमेव, प्रपञ्चितं तथागतेन प्रतिपादितम् // 11 //
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy