________________ 380 दिवाकरकृता किरणावलीकलिता पञ्चदशी बौद्धसन्तानद्वात्रिंशिका / विपर्यासात्मकमिति / "मनः मोहसङ्गाद् विपर्यासात्मकं, स्मृतेः तृष्णा चेतनाकम चेतयित्वोपचारतः संकल्पः" इत्यन्वयः / मनः अन्तःकरणं, मोहसङ्गात् पुत्र-कलत्रादिषु ममत्वाभिसन्धानात् , विपर्यासात्मकं विपर्ययस्वरूपं भ्रान्तमिति यावत् , स्मृतेः पूर्वानुभूतेष्टसाधनस्मरणात् , तृष्णा इदं मे स्यादित्यभिलाषः तदात्मकं मनः, चेतनाकर्म ज्ञानविषयीभूतं, चेतयित्वा भविष्यत्यनेन कर्मणो. त्तरकाले इदं ममेत्येवं ज्ञात्वा, उपचारतः कारणे मनसि कार्यस्य तादात्म्याध्यासात, संकल्पः मनोऽभिधीयते, उपचारत द्रव्यस्य विपर्यासात्मकमित्यतृष्णेत्यत्रापि च सम्बन्धः // 8 // उपचारतो भावनार्थमुपदर्य जातितो भावनार्थमुपदर्शयतिचक्षुरूपादिसंस्कारसमुत्थं सर्वजातिषु / विज्ञानमिव ज्ञातीनां नानात्वमिति जातितः // 9 // चक्षुरूपादीति / “सर्वजातिषु चक्षुरूपादिसंस्कारसमुत्थं विज्ञानमिव आतितो ज्ञातीनां नानात्वमिति' इत्यन्वयः / सर्वजातिषु घट-पटादिसर्वसामान्येषु, चक्षुरूपादिसंस्कारसमुत्थ नयनरूपालोकमनस्कारप्रभवं, विज्ञानमिव घटोऽयं घटोऽयं पटोऽयमित्याद्यनुगताकारसविकल्पकज्ञानं यथा सामान्यस्य वास्तविकस्याभावेऽपि भवति जातितोऽनुगतज्ञातिप्रकल्पनतः, तथा शातीनां ब्राह्मण-क्षत्रिय वैश्य-शूद्राणां, जातितः कल्पितावान्तरजातितः अथवाऽसदुत्तरजातिरिति लक्षणलक्षितं, नानात्वम् विभिन्नत्वम् न तु वस्तुतो विभिन्ना ज्ञातयः, इति एवं जाति तः भावनीयमित्यर्थः / / 9 / / जातितो भावनार्थमुपदर्योपपत्तितो भावनार्थमुपदर्शयतिचित्तवद् रूपकार्यस्य वैलक्षण्यं क्षणे क्षणे / तद्धयजात्यन्तरं तुल्यं न बाध्यत्युपपत्तितः // 10 // चित्तवदिति / “तद्धयजात्यन्तरं' इत्यस्य स्थाने 'तद्धि जात्यन्तर' इति पाठो युक्तः / “चित्तवद् रूपकार्यस्य क्षणे क्षणे वैलक्षण्यम् तद्धि जात्यन्तरं तुल्यम् , उपपत्तितो न बाध्यति" इत्यन्वयः / चित्तवद् यथा चित्तस्य क्षणे क्षणे वैलक्षण्यं