________________ दिवाकरकृता किरणावलोकलिता पञ्चदशी बौद्धसन्तानद्वात्रिशिका / 379 स्वीकर्तव्यतेत्यनवस्थापत्तेः, अन्योऽन्याभावलक्षणोऽपि भेदः प्रतियोग्यनुयोगिभ्यां भिन्न एव तद्भेदप्रतीतिविषयोऽभ्युपेयोऽन्यथा तस्य ताभ्यामभेदे तदभिन्नाभिन्नस्य तदभिन्नत्वमिति प्रतियोग्यनुयोगिनोरप्यभिन्नत्वं न स्यात्. अन्योऽन्याभावे प्रतियोग्यनुयोगिभ्यां भेदश्च स्वरूपवैधर्म्यलक्षणमेदयोदूषितत्वादन्योऽन्याभावलक्षणमेद एवाभ्युपेयस्तत्रापि प्रतियोग्यनुयोगिभ्यां भेदोऽन्योऽन्याभाव इत्यनवस्थानमिति मेदस्यासम्भवे तदभावलक्षणोऽमेदोऽपि न सम्भवतीत्येवं प्रश्नार्थस्यासद्भावात् , सन्तानमवक्तव्यम् अनिर्वचनीयम् , खपुष्पवत् गगनकुसुमवत्, वा अथवा, भावनार्थ नैरात्म्यदाढयंभावनार्थम्, सरित्प्रोतप्रदोपवत् यथा सरिन्नदीवेगवत्तरङ्गसन्तानतरलिताऽस्थिरस्वभावा तत्र प्रोतः प्रदीपोऽपि पवनसम्पर्कादत्यन्तमस्थिरस्वभावस्तथा सन्तानमपीति क्षणिकत्वान्म स्थिरस्वभाव मात्माऽपीति नैरात्म्यभावना दृढा भवतीत्यर्थः // 6 // भावनार्थ सन्तानमित्युक्तं तदेव विशदयतिमहाभूतोच्छ्रयो रूपं विज्ञान विषयो नयः / देवनाटयपृथग्भावो नृजात्यादिविल्पवत् // 7 // महाभूतोच्छ्रय इति / महाभूतोव्यः महान् भूतस्योपचयः पर्वत-नदीसमुद्रादिः, रूपं रूप-रस-गन्ध-स्पर्शाणुसमुच्छ्रयः, विज्ञानं विज्ञानाणुविशेषपुजात्मकम्, विषयः चक्षुरादीन्द्रियादिगोचरो ग्राम नगर-देश-लोकादिः सङ्घातविशेषः, नयः एकतया सामान्यविशेषादिरूपतया क्षणिकादिरूपतया वा नयनं सङग्रहादिः साम-दान-दण्डमेदादिराजनीतिर्वा, देवनाटयपृथग्भावः देवानामिन्द्राग्निवरुणादीनां पृथग्भावस्तत्तद्दिपालतया पृथक्त्वं तथा नाट्यनां च पृथग्भावः, एतत् सर्व काल्पनिकमित्यावेदनाय निदर्शनमाह-नृजात्यादिविकल्पवदिति मनुष्यजाति-पशुजाति-पक्षिजाति-तदवान्तरब्राह्मण-क्षत्रियादि-गोऽश्वादिगरुत्मत्कादिजातिविकल्पनं यथा तथेत्यर्थः // 7 // अन्यदपि नैरात्म्यभावनार्थबौद्धप्रपञ्चितमुपदर्शयतिविपर्यासात्मकं मोहसङ्गात् तृष्णा स्मृतेर्मनः / संकल्पश्चेतनाकर्म चेतयित्वोपचारतः // 8 //