________________ दिवाकरकृता किरणावलीकलिता पञ्चदशी बौद्धसन्तानद्वात्रिंशिका / 377 दायिव्यतिरेकेणोत्पत्तेरसम्भवात् , तदुभेदोपदर्शनप्रयोजनमाह-यस्मात् यस्मात् कारणात्, स्कन्धमात्रागतः स्कन्धमात्रेण पञ्चस्कन्धमात्रेण न तु तद्व्यतिरिक्ततया, आगतः प्राप्तः, पुमान् पुरुषः आत्मा न कश्चित् स्कन्धव्यतिरिक्तः किन्तु स्कन्ध एवेत्यर्थः // 3 // वास्तविकस्य समुदायिव्यतिरिक्तस्य स्कन्धस्य भावे पदार्थविभागः स्कन्धास्मतया किमिति क्रियते इत्याकाङ्क्षायामाह सेनावनवदेकान्तबुद्धेः प्रज्ञप्तिसौष्ठवात् / कीलवत् क्रियते मिथ्या मानकीला प्रवृत्तये // 4 // सेनावनवदिति / सेनावनवत् यथा रथ-तुरग-पदातीनामेकप्रतीत्युपपत्तये सेनेति संज्ञा आम्र-तिलक-शिंशपादिवृक्षगुल्मलतादीनां वनेति संज्ञा च तथा, एकान्तबुद्धेः रूपस्कन्धः एकः एव, विज्ञानस्कन्ध एक एवेत्येवमेकत्वविकल्पतः, प्रज्ञप्तिसौष्ठवात प्रज्ञापनस्य सौकर्यात्, ततः किमित्याकाक्षायामाह-कीलवत् यथा कीलकं ऊर्ध्वाधोव्यवस्थितानेककाष्टादिकमन्तःप्रविश्यैकीकृत्यैकप्रतीतिव्यवहारसंज्ञादिकं काल्पनिकं करोति तया, प्रवृत्तये लोकव्यवहाराय, मिथ्या तत्त्वाभावेऽपि तत्त्वाभासतया प्रवर्त्तमानत्वादवास्तको, मानकीला इदमत्र मानमिदमत्र मानमित्यनुगतिलक्षणा, क्रियते जन्यते, तत एवैकसन्तत्यनुस्यूतत्वात् पिता, पितामहादि-पुत्र-पौत्रादिव्यवहृतिरुपजायत इत्यर्थः / / 4 // एवं प्रवृत्तितः किं भवतीत्याकाङ्क्षायामाहममत्वाभिगमात् सत्त्वस्तच्च्युतो भ्रष्टराजवत् / भारहारादियोगास्तु व्याससंग्रहणाङ्गवत् // 5 // ममत्वाभिगमादिति / सत्त्वः आत्मा, ममत्वाभिगमात् धन-पुत्रकलत्रादौ ममत्वाभिसम्बधात् भवतीति शेषः, ममेदं धन, अयं मम पुत्रः, ममाय- पिता, इयं मम भार्येत्येवमभिसम्बन्धाद् रागवान् प्राणी भवतीत्यर्थः, तच्च्युतः तस्माद् यत् किञ्चिदंशेनापि च्युतः यत्र ममताऽभिनिवेशः तस्माद् द्वेषादिकारणेन च्युतो दूरीभूतः, भ्रष्टराजवत् यथा राज्यात् परिभ्रष्टो राजा