________________ 376 दिवाकरकृता किरणावलीकलिता पञ्चदशी बौद्धसन्तानद्वात्रिंशिका / क्षणाननुगामित्वादनहंकृतः पूर्वक्षणः सिद्धिक्षणभिन्नत्वात् तदानीमभावाच्च न युज्यते तस्य मुक्तिरित्यर्थः, अविद्या भवसत्का, विवेकाय विवेकप्राप्तये न भवति विवेककाले अविद्याया अभावात् , विद्या तत्त्वज्ञानं, भवगामिनी भवकालवृत्तिः // 1 // ततः किमित्याकाङ्क्षायामाह- . अन्योऽन्यविषयान् पश्यन् पुद्गलस्कन्धशून्यता। न जानाति शमैकार्था बुद्धानां धर्मदेशनाः // 2 // अन्योऽन्येति। "पुद्गलस्कन्धशून्यता" इत्यस्य स्थाने "पुद्गलस्कन्धशून्यताः" इति पाठो युक्तः / “अन्योऽन्यविषयान् पश्यन् शमैकार्थाः पुद्गलस्कन्धशून्यताः न जानाति इति बुद्धानां धर्मदेशनाः" इति सम्बन्धः / अन्योऽन्यविषयान् अहङ्कारनिर्वाणाऽनहङ्कारसिद्धिविवेका विद्या विद्याभवान् परस्परविरुद्धस्वभावान् , पश्यन् साक्षात्कुर्वन् जनः, शमैकार्थाः शमरूपैकप्रयोजनकाः, पुद्गलस्कन्धशून्यताः सर्वे पुद्गलाः सर्वे स्कन्धाः सर्व शून्यम्, न जानाति नावगच्छति, किमेताः, बुद्धानां बुद्धदेवताकानाम्, धर्मदेशनाः धर्मोपदेशवचनानि // 2 // पुद्गल-स्कन्धयोर्भेदमुपदर्शयतिसंख्यादिभेदादन्यत्वं भवाच्चेन्योऽन्यसङ्करः / स्कन्ध-पुद्गलयोर्यस्मात् स्कन्धमात्रागतः पुमान् // 3 // संख्यादिमेदादिति / सङ्ख्यादिभेदात् पुरणाद् गलनाच्चैकैकमपि पुद्गलसंज्ञकमित्यानन्त्यं पुद्गलानां रूपस्कन्ध-विज्ञानस्कन्ध-वेदनास्कन्ध-संज्ञास्कन्ध-संस्कारस्कन्धेति पञ्चविधावं स्कन्धानामिति संख्यामेदः, पुद्गलस्य पुद्गलेति संज्ञा, स्कन्धस्य स्कन्धेति संज्ञेति संज्ञामेदः, एवं विकल्पात्मकबुद्धिमेदोऽपीत्येवम्, संख्यादिमेदात् स्कन्ध-पुद्गलयोः अन्यत्वं मेदः, 'भवाच्चेन्योऽन्यसंकरः' इत्यस्य स्थाने 'भवाच्चान्योऽन्यसंकरः' इति पाठो युक्तः / भवाच्च उत्पत्तिश्च, अन्योऽन्यसंकरः स्कन्धः उत्पद्यमाने पुद्गलोऽप्युत्पद्यते, तत्समष्टेरेव स्कन्धत्वात्, समुदायस्य समु