________________ पञ्चदशी बौद्धसन्तानद्वात्रिंशिका / बौद्धामामृजुसूत्रनीतिजनिता धर्मार्थगा देशना मान्या जैनमतप्रचारनिपुणैः स्याद्वादतः संस्कृता / ऊहापोहविचारणैकपथगा मोहापहा भाविता / वीरोक्त्यंशधृतादरा विजयते वीरस्तुति विकी // बौद्धवक्तव्यमुपदर्शयति नाहंकृतस्य निर्वाणं न सेत्स्यत्यनहंकृतः। न वाविधा विवेकाय न विद्या भवगामिनी // 1 // नाहंकृतस्येति / “अहकृतस्य निर्वाणं न, अनहकृतो न सेत्स्यति, 'नका' इत्यस्य स्थाने 'म चा' इति पाठो युक्तः / विवेकाय अविद्या न च विद्या भवामिनी न" इत्यन्वयः / अहंकृतस्य अहङ्कारयुक्तस्म, सुखी भवेयं दुःखी च मा भूषमिति तृष्यतः यवाहमिति धीः सैव सहज सत्त्वदर्शनमिति वचनात् स्थिरात्मदर्शनवत इति यावत्, निर्वाण मोक्षः, न नैव, स्थिरात्मदर्शनवतः पुत्र-मित्र-कलत्रादिषु रागादेमोक्षप्रतिबन्धकस्य संसारोपचयकारणस्य सद्भावात् रागादिक्लेशवासनाविमुक्तिलक्षणो मोक्षो न भवतीति यावत् / "चित्तमेव हि संसारो रागादिक्लेशवासितम् / तदेव तैर्विनिर्मुक्तं भवान्तमिति कथ्यते // 1 // " इतिवचनाद् नैराम्यदर्शनस्यैव मुक्तिकारणत्वं बौद्धसम्मतम्, अत एवैतन्मतं व्यवहारविघातकत्वान्नादेयम् , स्थिरात्मदर्शनस्य मुक्तिकारणतया नैयायिकादिसम्मतस्य व्यवहाराविघातकत्वान्मोक्षजनकत्वेनादेयत्वम् , तदुक्तमुपाध्यायेन यशोविजयेन महावीरस्तुतौ “नैरात्म्यदृष्टिमिह साधनमाहुरेके सिद्धेः परे पुनरनाविलमात्मबोधम् / .. तैस्तैर्नयैरुभयपक्षसमापिते वाग् आद्यं निहन्ति विशदव्यवहारदृष्टया // 2 // " इति, अनहक्तः अहङ्कारहितः, न सेत्स्यति सिद्धिरत्र मुक्तिः, तेन मुक्तो न भविष्यतीयs, क्षनिकचित्तसन्ततिस्मात्मनि पूर्वपूर्वक्षणस्योत्तरोत्तर