________________ 374 दिवाकरकृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिंशिका / संशयेति / संशयप्रश्नसामान्य-विशेषप्रविभागतः कथायां तत्त्वा- .. निर्णयार्थ वादि-प्रतिवादिनोरवताराय मध्यस्थविप्रतिपत्तितः संशयः परस्परविरुद्धकोटिद्वयप्रकारकैकविशेष्यकज्ञान, यद्यपि वादि-प्रतिवादिनोः स्वस्वपक्षनिर्णयोऽस्त्येव तस्य संशयप्रतिबन्धकत्वात् संशयो न सम्भवति, तथापि मध्यस्थ. वाक्यादाहायसंशयो बोध्यः, ततो वादिना विधेयः प्रश्नः स्वाभ्युपगतार्थसाधनं तदेतत्स्थापनानुमानमुच्यते तस्य सामान्य-विशेषौ यो विषयौ तयोः प्रकर्षेण विभागतो विभजनतः यथा शब्दो नित्यो नवेति संशयः तदनन्तरं वादिनो मीमांसकस्य शब्दो नित्य एवेति प्रश्नः तस्य शब्दसमान्यं नित्यमिति विशेषध्वनिरूपो वर्णरूपो वा शन्दविशेषों नित्य इति विभजनतः, स्व-परप्रत्यव. स्थानवैशेषिकपथान्वयः स्वपरेति स्वस्य परस्य प्रतिवादिनो वा यत् प्रत्यवस्थानं प्रतिविधानं तेन वैशेषिकस्य पयोऽभ्युपगममार्गस्तस्यान्वयः सम्बन्धो भवति संशयादिना क्रमेण प्रश्न-प्रतिविधानाभ्यां यथावद्वस्तुनिर्णयो भवति नान्यथेति वैशेषिकाणां पन्थाः अतः संशयोऽवश्यमभ्युपेय इति संशायानुपपत्तौ वैशेषिकमार्ग एवोच्छियेतेति जगद्विधेः संज्ञालक्षणतत्त्वार्थो नानैवेति व्यवस्थितम् // 32 // धीमान् वादिदिवाकरो नयविदामग्रेसरः प्रोक्तवान् ___ संक्षेपात् कणभुग्मतं व्यवहृतेर्वीरोक्तनीतेः कणम् / तस्मात् तत्कथनं स्तुतिभगवतो निष्पीडनाद् युज्यते व्याख्यानं च ममापि तत्र सुगमं किं नेदमेवंविधम् // इति चतुर्दश्या वैशेषिकद्वात्रिंशिकाया व्याख्या समाप्ता //