________________ दिवाकर कृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिंशिका / 373 सुवर्णतै जसम् . सति प्रतिबन्धकेऽत्यन्तानलसंयोगेऽप्यनुच्छिद्यमानजन्यद्रवत्वात् यन्नैवं तन्नैवं यथा घृतादीत्यनुमानं तत्र प्रमाणम् , अथवा अत्यन्तानलसंयोगिपीतिमगुरुत्वाश्रयः रूपप्रतिबन्धकद्रवद्रव्यसंयोगः अत्यन्तानलसंयोगेऽपि पूर्वरूपविजातीयरूपानधिकरणपार्थिवत्त्वात् जलमध्यस्थपीतपटवदित्यनुमान तत्र प्रमाणम् , नीलं तमश्चलतीत्यादिप्रतोत्या रूपवत्त्वात् कर्मवत्त्वाच्च तमसो द्रव्यान्तरत्वमपि न युक्तम् , उद्भूतानभिभूतप्रकृष्टतेजोभावरूपतयैव तमसः प्रतीत्युपपत्तावतिरिक्तद्रव्यरूपतया तत्कल्पनासम्भवान्नीलादिप्रतीतेमा॑न्तित्वात् , एवं चन्द्रकान्तमण्यादिसमवहितेन वह्निना दाहो न जन्यते तच्छून्येन वह्निना दाहो जन्यते इति दाहं प्रति वर्तेर्वह्नित्वेन न कारणत्वं किन्तु दाहानुकूलशक्तिमत्त्वेन, चन्द्रकान्तमणिना दाहानुकूलशक्तिनश्यतीत्यतो न दाहः तदसमवधानेन सूर्यकान्तमणिसमवघानेन च शक्तिरुत्पद्यत इति दाह इत्येवंकारणमात्रस्य कार्यानुकूलशक्तिमत्त्वेन कारणत्वमिति कारणतानवच्छेदकतया शक्तिकल्पनाऽपि न भद्रा, उत्तेजकाभावविशिष्टमण्यादेर्दाहं प्रतिबन्धकत्वेन तदभावस्य दाहं प्रति कारणत्वेन तादृशकार्यकारणभावकल्पनयैवोपपत्तौ गौरवेण शक्तिरूपपदार्थान्तरकल्पनाया अनुचितत्वात्, सादृश्यमपि न पदार्थान्तरं किन्तु तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वमिति पदार्थान्तरापत्तिलक्षणाऽतिप्रसङ्गो न भवतीति, तथाऽव्यवस्थितपदार्थाऽभ्युपगमः, संशयानुपपत्तितः न संभवति, संशये कोटिद्वयभानं कोटिद्वये सति भवति, यदि कोटिद्वयव्यतिरिक्ता तृतीयाऽपि कोटिः स्यात् तदा तन्निर्णय एव न संशयः, एवं पदार्थाद्वैताभ्युपगमोऽपि संशयानुपपत्तितो न संभवतीति, अद्वैते कथं संशयानुपपत्तिरित्याकाङ्क्षायामाह-तमभेदेनेति तं संज्ञालक्षतत्त्वार्थम् , अमेदेन एकतया, संस्थानात् सम्यगप्रकारेण व्यवस्थानात्, एकतश्च एककोटितश्च, इतराविधि: अपरकोटिविधानं नास्ति // 31 // भवतु संशयानुपपत्तिः ततः किं वैशेषिकस्य गृहभङ्ग इत्यत आह संशयप्रश्नसमान्य-विशेषप्रविभागतः / स्व-परप्रत्यवस्थानवैशेषिकपथान्वयः // 32 //