________________ 372 दिवाकरकृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिंशिका / शाब्दबोधे आकाशादिगतमायसंसर्गविधया भानं तथेन्द्रियसन्निकर्षादिकारणं विनाऽपि प्रत्यक्षे समवायभानमिति, उक्तलक्षणकः समवायः, अस्ति विद्यते, भाववत् सत्तावत् यथा सत्सदित्यनुगत प्रतीतिविषयत्वात् सत्ता विद्यते तथेहेदमिति विशिष्टबुद्धिविषयत्वात् समवायो विद्यते, गुण-क्रियादिविशिष्टबुद्धिर्विशेषणविशेष्यसम्बन्धविषया विशिष्टबुद्धित्वाद् , दण्डो पुरुष इति विशिष्टबुद्धिवदित्यनुमानमत्र प्रमाणम्, न च स्वरूपसम्बन्धविषयकत्वेन सिद्धसाधनमर्थान्तरं वा, अनन्तस्वरूपाणां सम्बन्धत्वकल्पने गौरवालाघवांदेकस्यैव समवायस्य सिद्धेः रूपस्पर्शादिसमवायस्यैकत्वेऽपि रूपप्रतियोगिकत्वविशिष्टसमवायस्य वायावभावान्न वायुः रूपवानिति विशिष्टबुद्धिप्रसङ्ग इत्युपपादितमन्यत्र, तथा च विभिन्नलक्षणसंज्ञकानां षण्णां द्रव्यादितत्त्वानां जगति सद्भावाद् द्रव्यादिषट्पदार्थसमष्टिरूपस्य जगतो द्वैतमेव नाद्वैतमित्याह--संज्ञालक्षणतत्त्वार्थ इति, जगद्विधेः जगद्रूपभावस्य, विधिपदोपादानान्न शून्यमेव जगदिति सर्व शून्यमिति माध्यमिकमतव्यवच्छेदः, ब्रह्मैव सर्वमित्यद्वैतवादस्य विज्ञानाद्वैतादिवादस्य च व्यपोहायाह-तु पुनः, संज्ञालक्षणतत्त्वार्थः, द्रव्यगुणकर्मादिसंज्ञा, समवायिकारणं द्रव्य, द्रग्यकर्मभिन्नत्वे सति आतिमान् गुणः, द्रव्यगुणभिन्नत्वे सति जातिमत् कर्म इत्यादि लक्षणं तत्त्वार्थः द्रव्यगुणाद्यर्थ इत्येवम् , नानैव भिन्नैवेत्यर्थः // 30 // ननु संज्ञादीनां भिन्नत्वे एतावन्त एव पदार्था इति व्यवस्थिति स्यात् परिगणितपदार्थव्यतिरिक्तपदार्थोऽपि स्यादित्यतिप्रसङ्ग इत्यत आह नातिप्रसङ्गो घटवत् संशयानुपपत्तितः / तमभेदेन संस्थानादेकतश्चेतराविधिः // 31 // नातिप्रसङ्ग इति / नातिप्रसङ्गः कणादमुन्युपदिष्टपदार्थव्यतिरिक्तपदार्थसत्त्वप्रसङ्गलक्षणातिप्रसङ्गो न, यो यः पदार्थोऽतिरिक्तयाऽऽशङ्कय तस्य सर्वस्य क्लुप्तेष्वेव पदार्थेष्वन्तर्भावसंभवात्, घटवत् यथां घटयोर्मादवसौवर्णयोभिन्नत्वेऽपि नातिरिक्तपदार्थता तथा पदार्थान्तरतयाऽऽशक्यमानपदार्थस्यापि, यथा सुवर्णस्य प्रसिद्धद्रव्येतरतया शङ्कयमानस्य तेजःपदार्थेऽन्तर्भावः