________________ दिवाकरकृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिंशिका / 371 अन्तःकरणम् , अतन्त्रम् अनियामकम् , प्राणस्य शरीरे सद्भाव एवात्मनो मनसा संयोगे सति ज्ञानादिकमुत्पद्यते प्राणोत्थितौ चाकिञ्चित्करं मनः, न पुनः, संप्रयुज्यते ज्ञानादिजननाय नात्मना संबध्यते, तदानीमपि विभोरात्मनः मनःक्रियया मनसा संयोगोऽस्त्येव न तु ज्ञानादिजननायालम् / / 29 // भस्मिन्मते नैक एव तत्त्वार्थः किन्तु ज्ञानव्यतिरिक्ततद्विषयबाह्यार्थाभ्युपगमान्नानास्वरूपं जगत् , तदुक्तम् "न ग्राह्यभेदमवधूय धियोऽस्ति वृत्तिः तद्वाधने बलिनि वेदनये जयश्रीः / नोचेदनिन्द्यमिदमीदृशमेव विश्वं, तथ्यं तथागतमतस्य तु कोऽवकाशः // 7 // " इत्युपसंहरति इहेदमिति संबन्धः समवायोऽस्ति भाववत् / संज्ञालक्षणतत्त्वार्थो नानैव तु जगद्विधेः // 30 // इहेदमितीति / इहेदमिति सम्बन्धः इह कपालादौ इदं घट-पटादिकमित्याकारकप्रतीतिविषयः सम्बन्धः प्रकारताविशेष्यतान्यविशिष्टबुद्धिनिरूपितविषयतावान् भूतले घट इति प्रतीतिरपि इहेदमिति प्रतीतिर्भवति तद्विषयः संयोगादिरपीत्यतिप्रसङ्गः स्यात् तद्वारणाय नित्यत्वे सतीति विशेषणं देयम्, यद्यपि नित्यत्वे सति सम्बन्धत्वमेव समवायस्य लक्षणं, तथापि सम्बन्धत्वघटिका विशिष्टबुद्धिः किमाकारेत्याकारविशेषोपदर्शनार्थमिहेदमिति स्वरूपोपरजकम् , घटाभावे पटाभाव इति प्रतीतिरपीहेदमिति प्रतीतिस्तन्निरूपितसंसर्गत्वाख्याविषयताशालित्वात् स्वरूपसम्बन्धेऽतिप्रसङ्गस्तद्वारणाय प्रतियोग्यनुयोगिभिन्नत्वे सतीति विशेषणं देयम् , ततश्चावयवावयविनो गुण-गुणिनोः क्रिया-क्रियावतोर्जातिय॑क्त्योविशेषनित्यद्रव्ययोश्चायुतसिद्धयोः सम्बन्धः समवायः पृथरगतिमत्त्वं युतसिद्धत्वम् ययोर्द्वयोर्मध्ये एकमपरमाश्रित्यैवावतिष्ठते तावयुतसिद्धाविति वचनादपृथग्गतिमत्त्वमेवायुतसिद्धत्वं लभ्यते, एतन्मतेऽतीन्द्रियस्य समवायस्य प्रत्यक्षे प्रकारविशेष्यविधया भानमेव विप्रतिषिद्धमतो विषये प्रत्यक्षत्वं संसर्गतान्यप्रत्यक्षनिरूपितविषयताशालित्वमेव यथा च पदानुपस्थितस्यापि