________________ 370 दिवाकरकृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिंशिका / मनित्यत्वादिनाऽनादेयत्वप्रतिपादक भुक्तेरेव परमपुरुषार्थत्वप्रतिपादक ग्रन्थमधीत्य तदर्थमधिगच्छति अभ्युपगच्छति च तस्य ग्रन्थार्थज्ञानं तदभ्युपगम च यथावैराग्यं विषयवैतृष्ण्यकारित्वात् तथेत्यर्थः // 20 // मिथ्याज्ञानसलिलावसिक्तायामात्मभूमौ कर्मबीजं धर्माधर्माकुरावारभते न तु तत्त्वज्ञाननिपीतसलिलतयोषरायामिति प्राचां वचनात् तत्त्वज्ञानिनो न कर्मबीज दग्धबीजकल्पं धर्माधर्माकुरजननसमर्थमिति तथाविधसामर्थ्यलक्षणोपचयाभावः पुराणस्य तु कर्मणो ज्ञानादेव विनाशलक्षणोऽपचयः आरब्धस्याभ्युपभोगादेव विनाशलक्षणोऽपचय इति संसाराधिकाराभावान्मुक्तो भवतीत्याशयेनाह एवमात्मादिसंयोगेनाभिसन्धौ विपश्चितः / नवं न चीयते बीजं पुराणं चापचीयते // 28 // एवमिति। एवमुक्तप्रकारेण, अभिसन्धौ सत्यां, आत्मादिसंयोगेन म आत्मशरीरेन्द्रियादिसंयोगेन, विपश्चितः तत्त्वज्ञानिनः, नवं नवीनं, बीजं कर्मलक्षणबीज, न चीयते न सञ्चितं भवति फलदानसमर्थ न भवतीत्यर्थः, पुराण च मिथ्याज्ञामकालसञ्चितं च कर्मबीजम् , अपचीयते किञ्चित्फलमदत्त्वैव तत्त्वज्ञानेन विनश्यति किञ्चिचोपभोगेन शाम्यतीत्यर्थः // 28 // चक्रभ्रमिवत् कञ्चित् कालं प्रारब्धकर्मलक्षणसंस्कारवशाद् धृतशरीरस्य तत्त्वज्ञानिना प्राणायामाद्यष्टाङ्गयोगतोऽणिमा-लघिमाद्यष्टविधैश्वर्यंत उपभोगतश्चाशेषप्रारब्धकर्मक्षयतः शरीरात् प्राणस्य बहिर्गमने पुनः प्राणादेः शरीरान्तःप्रवेशाभावान्मुक्तिरुपपद्यतेतरामित्याह प्राणायामादिसामर्थ्यादैश्वर्याच्चोपभोगतः / प्राणोत्थितौ मनोऽतन्त्रं न पुनः संप्रयुज्यते // 29 // प्राणायामादीति / प्राणायामादिसामर्थ्यात् प्राणायामासन-यमनियम-प्रत्याहार-धारणा-ध्यान-समाधिस्वरूपाष्टाङ्गचित्तवृत्तिनिरोधलक्षणयोगसामर्थ्यात् , ऐश्वर्यात् अणिमा-लघिमा-गरिमाद्यष्टविधैश्वर्यात् , च पुनः, उपभोगतः अशेषकर्मफलोपभोगात्, प्राणोत्थितौ प्राणवायोः शरीराद् , बहिर्गमने मनः