________________ दिवाकरकृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिंशिका / 369 ततः किमित्याकाङ्क्षायामाह यथापदार्थविज्ञानं विद्यादृष्टिविशेषतः / तत्स्थैर्यमेव वैराग्यं ग्रन्थार्थप्रतिपत्तिवत् // 27 // यथापदार्थविज्ञानमिति / विद्यादृष्टिविशेषतः विद्यैव दृष्टिश्चक्षुस्तस्या विशेषा भेदास्तेभ्यः, यथापदार्थविज्ञानं यथावस्थितपदार्थविशिष्टज्ञानं यथा पदार्थस्तथाज्ञानमिति यावत् "श्रोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात्कर्तव्यः, इति श्रुतेः, श्रवण-मनन-निदिध्यासनानि विद्यादृष्टिविशेषास्तेभ्यो यथा पदार्थविज्ञानं पदार्थतत्त्वसाक्षात्कारः, तत्स्थैर्यमेव पदार्थतत्त्वसाक्षात्कारस्य स्थिरत्वमेव, यद्यपि वैशेषिकमते अपेक्षाबुद्धेः क्षणत्रयस्थायित्वं तदन्यज्ञानमात्रस्य द्विक्षणस्थायित्वमेव योग्यविभुविशेषगुणस्य स्वोत्तरोत्पन्नगुण नाश्यत्वनियमादिति पदार्थतत्त्वसाक्षात्कारस्य स्थर्य न सम्भवति तथापि यावन्न विमोक्षस्तावत् पदार्थ तत्त्वसाक्षाकारज्ञानधारा निराबाधैवेति तत्सन्तानरूपेण स्थैर्यमभिमतम् "तस्य तावदेव चिरं यावन्न विमोक्ष्ये, अथ सम्पत्स्ये' इति श्रुतेः, तस्य तत्त्वज्ञानिनः, तावदेव तावत् कालमेव चिरं विलम्बः अशेषविशेषगुणोच्छेदलक्षणपरममुक्तेविलम्बो भवति तावत्कालं जीवन्मुक्त एव स गीयते, यावत् यावत्कालं, न विमोक्ष्ये प्रारब्धकर्मणा न विमोक्ष्यते, "ज्ञानग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन !" इति वचनं प्रारब्धकर्मेतराशेषसञ्चितकर्मनाशकत्वमेव तत्वज्ञानस्य बोधयति "अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् / ___ नामुक्त क्षीयते कर्म कल्पकोटिशतैरपि // 6 // ' इत्यादिवचन तु प्रारब्धकर्मगां भोगादेव क्षय इत्यभिप्रायकम् , अत एव तत्त्वज्ञानी शूकरादिशरीरोपभोग्यप्रारब्धकर्मज्ञपणार्थ कायव्यूह करोतीति, अब प्रारब्धकर्मणो भोगेन क्षपणानन्तरं, विमोक्ष्ये संसार कारागारान्तःकर्म निगडबन्धान्मुक्तो भवतीत्युक्तश्रुत्यर्थः, तदेव वैराग्यं मुक्तिस धनत्वेनाभिमतं वैराग्यम् , न तु सर्वथा रागाभावलक्षणं तत् तस्य मुक्त्ययोग्येऽपि घट-पटादौ सद्भावात्, ग्रन्थार्थप्रतिपत्तिवत् यः कश्चिद् विषयरक्तः पुरुषः विषयाणामबलाप्रभृतीना. 24