________________ 368 दिवाकरकृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिंशिका / प्रतिष्ठादिभेदेन बहुविध इत्याह- सर्वः अदृष्टविशेषाय अदृष्टो धर्माधर्मभेदेन द्विविधस्तत्र प्रकृते धर्म एवादृष्टशब्देनावबोध्यते तद्विशेषः पुण्यानुबन्धिपुण्यरूप- . स्तन्निष्पत्यर्थम्, अत्र कर्तुरधिकारित्वमात्रमपेक्षितं न तु कुलादिकमित्यवगतये यस्येति तत्तद्विध्यधिकारी पुरुषस्य, यस्मिन् देशे कर्तव्योऽयं विधिः तस्य पुरीषाद्यरहिततैवापेक्षिता न तु तीर्थस्थानादि वेत्यभिसन्धानेनाह-यत्र कालोऽपि मूत्रपुरीषाद्युत्सर्गादिकालव्यतिरिक्त एव सामान्येनापेक्षितो न तु पवकालादिता विशिष्य तत्रोपादेयेत्याह-यदेति तस्य विधेरिति कर्त्तव्यतामात्रमपेक्षितं न तु प्रकारान्तरमित्याह-यथा इति कर्तव्यतासम्पादनप्रकारेणेत्यर्थः // 25 // विशिष्टफलसम्पत्तये विशिष्ट फलसाधनमुपादेयं न तु सामान्यफलसाधनतो विशिष्टफलावाप्तिरिति परमपुरुषार्थमोक्षफलनिष्पत्तये तत्साधनवैराग्यादिकमुपादेयमिति तत्स्वरूपावगम आवश्यक इत्यभिसन्धानेन फलभेदे कारणभेदकल्पनाऽऽवश्यकीत्याह द्रव्यादीन्यक्षतार्थस्य प्रसादोभयसाधनम् / तत्सामान्यफलान्यैक्याहते त्वक्षादिकल्पना // 26 // द्रव्यादीनीति / 'प्रसादोभयसाधनम्, इत्यस्य स्थाने 'प्रसादोदयसाधनम्' इति; 'प्रसादभयसाधनम्' इति वा पाठो युक्तः / अक्षतार्थस्य नक्षतो विनष्टोऽक्षतः अक्षतोऽर्थः प्रयोजनं यस्य सोऽक्षतार्थस्तस्य, द्रव्यादीनि धन-पुत्र-स्त्री.कुटुम्बादीनि, प्रसादोदयसाधनम् प्रसादश्चोदयश्च प्रसादोदयो तयोः साधनं प्रसादोदयसाधन अक्षतप्रयोजनस्य पुरुषस्य धनादिकं प्रसादोदयसाधनं भवतीति सर्वजनसिद्धम्, अथवा तस्य पुंसः द्रव्याद्यपहारकचौरराजाग्न्नादिभ्यो भयमप्युपजायत इति प्रसाद. भयसाधनम्, तत्सामान्यफलानि यस्य कस्यापि पुंसो द्रव्यादिभ्यः प्रसादोदयौ प्रसादभये वा भवत एवेति प्रसादोदयलक्षणसामान्यफलान्येव द्रव्यादीनि, ऐक्यादृते तु फलस्यैकममेदं विना पुनः, अक्षादिल्कपना चक्षुरादीन्द्रियकल्पना भवति न हि चाक्षुषप्रत्यक्षलक्षणं चक्षुरिन्द्रियफलं त्वगिन्द्रियादीनां नवाऽनुमानफलमनुमितिरिन्द्रियस्येत्येवं फलैक्याभावे कारणभेदकल्पनाऽऽवश्यकीत्यर्थः // 26 //