________________ दिवाकरकृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिंशिका / 367 अदृष्टविशेषौ धर्माधौं विविक्तौ विभिन्नफलदर्शनप्रमाणेन साधयति अक्षप्रदोषाध्यारोपविद्यासुखप्रमाणतः। इच्छाद्वेषवतो यस्माद् धर्माधर्मविक्लृप्तयः // 24 // अक्षप्रदोषेति / अक्षप्रदोषाध्यारोपविद्यासुखप्रमाणतः अक्षप्रदोषः चक्षु रादिगतकाणान्ध्य-कोष्ठ्य-बाधिर्यादिलक्षणः, अध्यारोपः अन्यस्मिन्नन्यधर्मसमारोपो विशेषादिस्वरूपो मनोदोषः, विद्या अधीतप्रन्थादियथार्थज्ञानम् , सुखं प्रसिद्धम् अक्षप्रदोषाध्यारोपविद्यासुखान्येव प्रमाणं अक्षप्रदोषाध्यारोपविद्यासुखप्रमाणं तस्मादक्षप्रदोषाध्यारोपविद्यासुख प्रमाणतः, इच्छाद्वेषवतः रागद्वेषवतः पुंसः, यस्मात् यस्मात् कारणात्, धर्माधर्मविक्लृप्तयः अयं धार्मिकः विद्यासुखादिमत्त्वात् अयमधार्मिकः अक्षप्रदोषादिमत्त्वादित्येवं धर्माधर्मयोविविक्ताः कल्पना भवन्तीत्यर्थः // 24 // शुद्धाभिसन्धानेन या काचित् कायिकी वाचनिकी मानसी वा क्रिया क्रियते सा सर्वापि यम्य कस्यचित् पुंसो यत्र कुत्रापि देशे यदा कदाचिद् वा काले येन केनापि प्रकारेण धर्मविशेषजनिका भवत्येवेत्याह शुद्धाभिसन्धिर्यः कश्चिवत् काय-वाङ्-मानसो विधिः। सर्वोऽदृष्टविशेषाय यस्य यत्र यदा यथा // 25 // शुद्धाभिसन्धिरिति / शुद्धाभिसन्धिः अभिसन्धिरभिप्रायः स शुद्धाशुद्धमेदेन द्विविधः, तत्र अनेन कर्मणा सर्वस्वामिकल्याणं भवतु मा कश्चिद् दुःखभाग् भवत्वित्यभिसन्धिः शुद्धा, अनेन कर्मणा मम शत्रवो म्रीयन्तामित्याद्यभिसन्धिरशुद्धा, शुद्धा अभिसन्धिर्यत्र स शुद्धाभिसन्धिः, यः कश्चित् नात्र विशेष आद्रियते, किन्तु काय-वाङ्-मानसः अत्र कायादिशब्दस्य कायिकादौ लक्षणया कायिकवाचिक-मानसिकः, अत्र विकल्पादरे कायिको वा वाचनिको वा मानसिको वेति, त्रिकरणशुद्धस्यैव शुद्धाभिसन्धित्वेन विशिष्टपुण्यजनकत्वे समुच्चयः तेन य एव कायेन कृतो वंचसाऽभिस्तुतो मनसा चिन्तितो ध्यातश्च स एव विशिष्टपुण्यजनको नैकैकमात्रमिति, विधिः शास्त्रविहितो धर्मानुष्ठानम्, एवंविधोऽप्युपवास- देवादि