________________ 366 दिवाकरकृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिंशिका / अभिसन्धिः पूर्वानुसन्धान तद्विशेषः मनसि स्वप्नवहनाडीसन्निकृष्टपुरीततिनाडोतो बहिर्भावस्तस्मात् पुरीततिनाडीबहिर्भूतमनसा सहात्मनः संयोगविशेषादिति यावत् भवतीति शेषः, तदेव प्रबोधज्ञानं, तेषां संप्रबुद्धानां, सतत्त्वव्यञ्जनं तत्त्वेन प्रतिनियतविषयेणासाधारणधर्मवता सहितं सतत्त्वं तत्तदसाधारणधर्मवद्विषयकज्ञानं तस्य जनक, प्रदीपद्रव्ययोगवत् यथा चक्षुरिन्द्रियेण संयुक्तेऽपि विषये यावत्प्रदीपाद्यालोकसंयोगो न भवति तावत्तद्विषयज्ञानं नोपजायत इति प्रदीपद्रव्यसंयोगस्तजनकत्वाद् व्यञ्जकस्तथेत्यर्थः / / 22 // __ नन्वेकस्मिन् ज्ञाने निरंशे सर्वथा विजातीयानामक्ष-मनो-बुद्धयादीनां तत्तदंशमेदप्रयोजकत्वाभावादेकावयविस्वरूपतालक्षणब्यूहासंभवादेकस्याविशिष्टज्ञानलक्षणकार्यस्यैकेनैव सम्भवादनेकेषामेकस्वरूपप्रविष्टत्वासम्भवादेकस्वरूपप्रवेशे वासङ्कीर्णत्वं तेषां स्यादित्यत आह अव्यहादकुरैः सौक्षम्यान्नकदीपप्रकाशवत् / एतेनाक्ष-मनो-बुद्धयाद्यसंकरविनिणयः॥२३॥ अव्यूहादिति / अकुरैः अनेकसूत्रनिकरैर्तिकालक्षणैः अव्यूहाद् अवयवात्मकव्यूहाभावात्, सौक्ष्म्यात् प्रत्येकं सूक्ष्म रूप वात्, नैकदीपप्रकाशवत् यथाऽनेकदीपप्रकाशो भवति तथा, परस्परसहकृतैरनेकर्मयोग्यैकज्ञानं भवति तत्राक्षस्य स्पष्टतालक्षणधर्मे उपयोगः, मनसः आत्म-मनःसंयोगलक्षणासमवायिकारणप्रभवत्वप्रयुक्तात्मविशेषगुणत्वे उपयोगः, बुद्धयादेश्च तत्तद्विषयविषयकत्वे उपयोग इति निरंशत्वेऽप्यनेकधर्मवत्त्वात् तत्र तत्तद्धर्मसंपादनप्रयोजनकत्वेनानेकेषां विजातीयानामेकस्मिन्नुपयोगो नासङ्गत इति, अत एव सङ्कीर्णत्वमपि न तेषामित्याह-एतेनेति / एतेन सूक्ष्मानेकपत्तिकाप्रभवानेकसूक्ष्मदीपप्रकाशसङ्घटितमूर्तिदीपप्रकाशेऽनेकेषां प्रकाशकारणानामसङ्कीर्णतादृष्टान्तेन, अक्ष-मनो-बुद्धयाद्यसंकरविनिर्णयः प्रत्यक्षत्वायनेकधर्मकलितकज्ञानकारणानां बहिरिन्द्रियान्तःकरणबुद्धयादीनामसङ्करस्य परस्परविविक्तस्वरूपत्वस्य विनिर्णयो भवतीत्यर्थः // 23 //