________________ दिवाकरकृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिशिका / 365 वानेव किन्तु इदानी यो मल्लो रणार्थमुपस्थितः स पराजितपूर्वमल्लादधिकतरबलवानिति एतत्परांजये पूजनीया ते शूरतेत्येतस्मात् कारणात्, इतोऽपि प्रबलतरं शरं भवानुत्तरकाले पराजयिष्यतीति, भवान् शूरो भविष्यतीति, एवमन्यत्राप्यपेक्षया वर्तमानेऽपि कालत्रययोजना कार्येति, न चायमपेक्षाकृतकालत्रयसम्बन्धो वर्तमानस्याप्रामाणिकोऽनुभूयमानत्वादित्याह-दृष्टत्वात् कार्यान्तरनियोगतः कार्यान्तरप्रेरणातोऽनुभूयमानत्वात् कार्यान्तरप्रवृत्तये उत्साहाधाना येत्थमपेक्षाकृतसम्बन्धस्य दृष्टत्वादिति यावत् // 20 // प्रत्यक्षाविषयेष्वपि वस्तुषु अदृष्टविशेषतः सामान्यतः संशयादिकमुपदर्शयति आत्ममानससंयोगविशेषादेव खादिषु / सामान्यात् संशय-स्वप्न-स्मृतीश्वादृष्टसंस्कृतैः // 21 // आत्ममानसेति / खादिषु आकाश-काल-दिगादिष्वतीन्द्रियेषु, आत्ममानससंयोगविशेषादेव आत्मनो मनसा सह यः संयोगविशेषस्तस्मादेव, एवकारेणान्यत्र संशयकारणस्य साधारणधर्मवद्धर्मिज्ञानासाधारणधर्मवद्धमिध्यानविप्रतिप्रत्त्यादेव्यवच्छेदः, सामान्यात् किंस्विदित्यादिरूपेण, न तु विशेषतोऽयमाकाशो नवा कालो नवेत्यादिरूपेण 'संशयस्वप्नस्मृतीश्चा' इत्यस्य स्थाने 'संशयः स्वप्नः स्मृतिश्चा' इति पाठो युक्तः / संशयः एकधर्मिकविरुद्धप्रभावाभावोभयप्रकारकं ज्ञानम्, स्वप्नः बहिरिन्द्रयव्यापारासम्पृक्तमनोव्यापारप्रभवं ज्ञानं, स्मृतिश्च भावानासंस्कारद्वाराऽनुभवजन्यज्ञानं, भवन्तीति शेषः, कैरित्याकाङ्क्षायामाह-अदृष्टसंस्कृतैः शुभाशुभजनकादृष्टविशेषसध्रीचीनकारणैः / / 21 // . सुप्तोत्थितस्य पूर्वमिन्द्रियादिसन्निकर्षाभावादाद्यं प्रबोधज्ञानं कुत इत्याकाङ्क्षायामाह - संप्रबुद्धेषु विज्ञानमभिसन्धिविशेषतः / सतत्त्वव्यञ्जनं तेषां प्रदीपद्रव्ययोगवत् // 22 // 'संप्रबुद्धेष्विति / संप्रबुद्धेषु सद्यः सुप्तोत्थितः पुमान् संप्रबुद्ध इत्युच्यते,. ततः सुप्तोत्थितेषु, विज्ञानं संप्रबोधात्मकं ज्ञानम्, अभिसन्धिविशेषतः