SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ 364 दिवाकरकृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिशिका / अन्य इति / अन्यः अनुपचरितार्थाद् भिन्नः, यथा घृतमायुःशब्दानुपचरितपुरुषार्थाद् भिन्नम्, अन्यथा आयुःशब्दप्रवृत्तिनिमित्तायुस्त्वप्रकारान्यायुःकारणत्वप्रकारेण, सः आयुःशब्दवाच्यः, सदा द्रव्यादिसत्ताभावात् सदा सर्वदा, द्रव्यादिरूपेण सत्तायाः सत्त्वस्य भावात् यद् द्रव्यरूपेण यद्गुणादिविशेषक्त्त्वरूपेणानुपचरितोपचरितार्थयोः सत्त्वं तस्य सर्वदाभावात् न ह्यनुपचरितमुपचरितं भवति उपचरितं वाऽनुपचरितं भवतीति, अन्तरं भिन्नम् , भेदे हेत्वन्तरमाहअनारम्भाविनाशाच्च यो हि यस्मादभिन्नो भवति स तस्योत्पादे उत्पद्यते तस्य विनाशे च विनश्यति, उपचरितार्थस्तु अनुपचरितार्थोत्पादेनोत्पद्यते अनुपचरितार्थविनाशे च न विनश्यति एवमनुपचरितार्थोऽपि उपचरितार्थोत्पादे नोत्पद्यते उपचरितार्थविनाशे च न विनश्यति अतोऽनारम्भाविनाशादुपचरितानुपचरितार्थयोरन्तरं समस्तीति, एते च हेतवः, तेषु उपचरितानुपचरितार्थेषु, स्मृतिविरोधिनः उपचाराच्छब्दाद् यदोपचरितार्थः स्मर्यते तदानुपचरितार्थस्य न स्मरणमित्युपचाराश्रयणे उपचरितार्थ स्मृतिलक्षणपदार्थोपस्थित उपचरितार्थस्यैवान्वयबोधः, शक्त्याश्रयणे तु शक्तिग्रहणतः शक्यार्थस्मृतिलक्षणपदार्थोपस्थितितः शक्यार्थस्यैवान्वयबोध इति व्यवस्थोपपद्यते इत्यर्थः // 19 // उपचारतः कार्यान्तरवशादे कस्यापि वस्तुन एकदाऽपि भूतत्वं वर्तमानत्वं भविष्यत्वं चेत्युपदर्शयति अभूदभूताद् भवतीत्यपेक्षा चापि कारणात् / भविष्यतीति दृष्टत्वात् कार्यान्तरनियोगतः // 20 // अभूदिति / अभूदभूताद् भवतीति यत् कार्य यस्य करणीयं तत् कार्य तस्य निष्पन्नं चेत् तदा तदपेक्षयाऽभूत् स इति व्यपदिश्यते यथा कश्वित् पुरुषः सङ्ग्रामे शत्रन् पराजित्य समागतस्तदानों शूरोऽपि सन् शूरकार्यपरम्परा भवापेक्षया भवान् शूरोऽभूदिति व्यादिश्यते, यदा च सङ्ग्रामे शत्रुपराभवं कतुं समुद्यतस्तदा न भूतोऽभूतः परपराजयः, किन्तु अचिरं भविष्यतीति वर्तमानसमीपं वर्तमानं भवतीति अभूतापेक्षया भवान् शूरो भवतीति व्यपदिश्यते, अपेक्षा चापि इयमपेक्ष ऽऽश्रिता, साऽपि कारणात् पूर्वपि भवान् परपराजयं कृत
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy