________________ दिवाकरकृता किरणावलीकलिता चतुर्दशो वैशेषिकद्वात्रिंशिका / 363 व्यवहार-बोजाङकुरवदनवस्थेयं प्रामाणिको न दोषावहेत्याशयः, केयं संज्ञानामित्याकाङ्क्षायामाह-संशास्त्विति संज्ञाः पुनः, भाव-द्रव्यादिनिमित्ताः द्रव्यादीत्यादिपदाद् गुणादेरुपग्रहः, भावः-सामान्यं तन्निमित्तका संज्ञा द्रव्यगुणकर्मघट-पटमठोदिरूपरसाद्युत्क्षेपणापक्षेपणादिका, द्रव्यनिमित्तका संज्ञा, दण्डी कुण्डली त्यादिका गुनिमित्तका द्रव-गुरु-स्निग्धादिका, कनिमित्तका पण्डिताध्यापकादिका, संज्ञाप्रवृत्तिनिमित्तत्वं च वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपास्थितिप्रकारत्वम् , समयात्मिकाः यद्यपि समयः सङ्केतः अस्मात् पदादयमर्थो बोद्धव्य इति इदम्पदममुमथं बोद्धव्य इति वेच्छा, सा चेश्वरेच्छेवेश्वरोपगन्तृवैशेषिकादिमते ईश्वरानभ्युपगन्तृमते विच्छामानं, तदात्मकत्वं च न शब्दविशेषस्वरूपायाः संज्ञायाः, तथापि समयविषयत्वेन समयत्वं तत्रोपचर्यसमयात्मिका इत्युक्तिः // 17 // निरुक्तिभेदेनोपचारतश्च संज्ञासमयमतिक्रम्यापि प्रवर्तत इत्याह निरुक्तार्थोपचारभ्यामेता जातिविभक्तिषु / हिनोति हीयते वेति हेतुं गृह्णन्त्यमी गृहाः // 18 // निरुक्तार्थेति। निरुक्तार्थोपचाराभ्यां निरुत्त्या प्रत्येकपदावयवशक्त्या लभ्योऽर्थो निरुक्तार्थः, उपचारः कार्य-कारणभावसम्बन्धमाश्रित्य कारणवाचकशब्दस्य काये प्रवृत्तिः कार्यवाचकशब्दस्य कारणे प्रवृत्तिः एवं स्वस्वामिभावसम्बन्धादिकमाश्रित्य स्वामिवाचकशब्दस्य सेवकादौ सेवकादिवाचकशब्दस्य स्वाम्यादौ प्रवृत्तिः ताभ्याम्, एताः संज्ञाः, जातिविभक्तिषु प्रवर्तन्ते, यथा गृहशब्दो रूढ्या गेहे प्रवर्तते, निरुक्त्या तु हिनोति विनाशयतीति हेतुः, वा अथवा, हीयते क्षीयते इति हेतुः, तं हेतुं गृह्णन्ति धारयन्ति, अमी प्रत्यक्षतो गृह्यमाणाः, गृहा: अत्र ये केचन हेतुधारणसमर्था गेहा अन्ये वा ते ते सर्वेऽप्युक्तनिरुक्त्या गृहसंज्ञका इत्यर्थः // 18 // . उपचारतोऽन्यार्थमुपदर्शयति अन्योऽन्यथा स द्रव्यादिसत्ताभावात् सदान्तरम् / अनारम्भाविनाशाच्च तेषु स्मृतिविरोधिनः // 19 //