________________ 362 दिवाकरकृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिंशिका / ~~~~ ~~~~~ ~~ ~ ~~~~~~ ~~~~ ~~~~ ~~ ~~wwwwwwwww w w w ww संस्कारोऽतीन्द्रियः, वेगेन गच्छतीति व्यवहाराद् वेगजन्यक्रियाया गमन मिति संज्ञाव्यवसायोऽपि तथाविध एव, अदृष्टं धर्माधाम, तत्र विहितक्रियाजन्यः स्वर्गादिसाधनं धर्मः अधर्मो नर कादिहेतुर्निन्दितक्रियाजन्यः, वढेरूज़ज्वलनं, वायोस्तिर्यक्पवनमदृष्ट जन्यमिति, अदृष्टजन्यक्रियाया ऊज्वलनादिनामविकल्पोऽपीदमूवज्वलनमित्यादिः वह्निरुवं ज्वलति वायुस्तिर्यग् वातीति व्यवहारात् तथोपेयत इत्यर्थः // 16 // व्यवहारतः संज्ञाविकल्पावित्यस्योपपादनायाह संबन्धाद् बुद्धयपेक्षश्च कार्याश्चाज्ञस्य बुद्धयः। संज्ञास्तु भाव-द्रव्यादिनिमित्ताः समयात्मिकाः // 17 // सम्बन्धादिति / सम्बन्धात् जन्य-जनकभावसम्बन्धात् पितृ-पुत्रादिसंज्ञा भवति; जनकः पिता, जन्यः पुत्र इति व्यवहारात्, एवं मातुल इति संज्ञा स्वजननीभ्रातृत्वसम्बन्धात् तथैव व्यवहारात , यद्यपि "शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद् व्यवहारतश्च / वाक्यस्य शेषाद् विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः // 5 // " इति वचनाद् व्याकरणादोनामपि शक्ति ग्राहकत्वेन संज्ञाप्रवृत्तौ प्रयोजकत्वं तथापि बालानामादिव्युत्पत्त्याधाने व्यवहार एवोपयुज्यते, एवं भागिनेय इति संज्ञा स्वभगिनीपुत्रत्वसम्बन्धात्, तथैव व्यवहारात् , बुद्धयपेक्षश्च व्यवहारे व्यवहर्तव्यज्ञानं कारणमिति व्यवहारो व्यवहर्त्तव्यबुद्धिं स्वजननाया पेक्षते इति व्यवहारो बुद्धथपेक्षो व्यवहाराच्च संज्ञा प्रवर्तते इति, संज्ञाऽपि बुद्धथपेक्षा / नन्वेवं विकल्पात्मकज्ञानाद् व्यवहारो न तु व्यवहाराद् विकल्प इति संज्ञा-विकल्पो व्यवहारत इति प्रतिज्ञा हीयेतेत्यत आह-कार्याश्चाज्ञस्य बुद्धय इति, अत्र 'कार्याश्चा" इत्यस्य स्थाने 'कार्य चा' इति पाठो युक्तः / अज्ञस्य प्रथमतः सन्बन्धादिसंज्ञानिमित्तानभिज्ञस्य बालस्य, व्यवहर्तव्यपदार्थानां बुद्धयो विकल्पाः, कार्यश्च प्रयोजकप्रयोज्यवृद्धव्यवहारकार्य च अनादिवृद्धपरम्पराप्रवाहतः समागता इमे संज्ञाविकल्पव्यवहाराः तत्राज्ञस्य व्यवहाराद् विकल्पबुद्धयोऽज्ञस्य तु व्यवहर्तव्यज्ञानाद्