________________ दिवाकरकृता किरणापलीकलिता चतुर्दशी वैशेषिकद्वात्रिंशिका। 361 - नित्यम्, नैमित्तिकद्रवत्वं पृथिवी-तेजसोः, पृथिव्यां घृतादौ तेजःसंयोगजन्यं द्रवत्वं, तेजसि सुवर्णे अग्निसंयोगजन्यं द्रवत्वम् , जलं स्यन्दते इति व्यवहाराद् द्रवत्वजन्यक्रियायाः स्यन्दनसंज्ञा व्यवसायोऽपि, जलं स्यन्दते इत्येव, आद्यस्यन्दने द्रवत्वमसमवायिकारणं द्वितीयस्यन्दनादौ वेगाख्यसंस्कारोऽसमवायिकारणं द्रवत्वं च निमित्तकारणम्, आद्यपतनासमवायिकारणं गुरुत्वं तद् गौरवशब्देनाप्यभिधीयते, पृथिवीजलवृत्त परमाणुगतं नित्यम् अन्यत्रानित्यं आद्यपतने गुरुत्वमसमवायिकारणम् , द्वितीयपतनादौ वेगोऽसमवायिकारणं गुरुत्वं निमित्तकारणम् , पततीति व्यवहाराद् गुरुत्वजन्यक्रियायाः पतनमिति नाम इदं पतनमिति व्यवसायश्च, संयोगः प्राक् निरूपित एव तज्जन्या क्रिया हस्तलोष्ठादिसंयोगजन्या ऊर्ध्वदेशसंयोगानुकूला क्रिया उत्क्षेपतीति व्यवहारात् तस्या उत्क्षेपणमिति नाम इदमुत्क्षेपणमिति विकल्पश्च एवमवक्षेपणाकुञ्चन-प्रसारण-गमनादिकं नाम तथा व्यवसायश्चाऽवक्षिपतीत्यादिव्यवहारादवसेयः, यत्नः प्रयत्नः स च प्रवृत्ति-निवृत्तिजीवनयोनिभेदेन त्रिविधः, तत्र प्रवृत्ताविष्टसाधनताज्ञानं. कृतिसाध्यताज्ञानं चिकीर्षा, उपादानस्य प्रत्यक्षं च कारणं, चिकीर्षा नाम कृतिसाध्यत्वप्रकारिकेच्छा, इच्छा कामः, फलेच्छोपायेच्छामेदेन द्विविधा, तत्र फलेच्छां प्रति फलज्ञानं कारणम् , उपायेच्छां प्रति च फलेच्छा इष्टसाधनतीज्ञानं च कारणं, चिकीर्षाप्युपायेच्छाविशेष एव, तत्र कृतिसाध्यताज्ञानमधिकारणम् , सामान्यत इच्छायाः स्वप्रकारप्रकारकज्ञानसाध्यत्वमिति नियमात् , निवृत्तौ च द्विष्टसाधनताज्ञानं द्वेषश्च कारणम्, द्वेषः क्रोधः सकलद्वेषोयायद्वेषमेदेन द्विविधः, अनिष्टफलद्वेषे अनिष्टफलज्ञानमेव कारणं जीवनयोनियत्ने च जीवनादृष्टं कारणं, स च यत्नोऽतीन्द्रियः शरीरे प्राणसञ्चारे कारणम्, प्रयत्नवदात्मसंयोगजन्या क्रियैव प्रयत्नजन्या, तस्याश्चेष्टेति नाम, प्रयत्नवदात्मसंयोगजन्यक्रियाया एव चेष्टात्वात् सा च शरीर-तदवयववर्तिनी, परमाणुक्रियायाः प्रयत्नवदीश्वरसंयोगजन्यत्वाच्चेष्टात्वं तादृशक्रियावत्त्वात् परमाणव ईश्वरशरीरमिति मन्यन्ते वैशेषिकाः, इयं चेष्टेति व्यवसायश्च चेष्टत इति व्यवहारात्, संस्कारस्त्रिविधः वेग-स्थितिस्थापक-भावनामेदात्, तत्र वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः, स्थितिस्थापकः कटादिपृथिवीवृत्तिः, कस्यचिन्मते पृथिव्यादिचतुष्टयवृत्तिः, वेगः प्रत्यक्षविषयः, स्थितिस्थापकोऽतीन्द्रियः, उपेक्षाऽनात्मकनिश्चयजन्यः स्मृतिहेतुर्भावना