________________ 360 दिवाकरकृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिंशिका / परत्वे नियताश्रयके एव, यो यदपेक्षयाऽधिकतरसूर्यपरिस्पन्दान्तरितजन्मा स तदपेक्षयाऽल्पतरसूर्यपरिस्पन्दान्तरितजन्मा न भवतीति स तदपेक्षया पर एव, यो चदपेक्षयाऽल्पतरसूर्यपरिस्पन्दान्तरित जन्मा स तदपेक्षया बहुतरसूर्यपरिस्पन्दान्तरितजन्मा न भवतीति स तदपेक्षयाऽपर एवेति, दैशिकपरत्वापरत्वयोस्तु नैवं नियमः यो यदपेक्षया बहुतरमूर्तसंयोगात् परः पूर्व भवति स एव तद्देश त् समीपतरवर्तिदेशगतः सन् तदपेक्षयाऽल्पतरमूर्तसंयोगात् पश्चादपरोऽपि भवतीति, एवं समीपदेशवर्तित्वात् पूर्वमपरोऽपि पश्चाद् विप्रकृष्टदेशवर्तित्वात् परोऽपि भवतीति, ननु परत्वापरत्वयोमूर्त्तद्रव्यमात्रवृत्तित्वे, गुणकर्मणां परत्वापरत्वयोरभावात् तेषु परापरव्यवहारो न भवेत् , भवति च स इति गुण-कर्मसु परत्वापरत्वे अभ्युपगमनीये इत्यत आह-गुणकर्मणामिति गुणकर्मणां परत्वं च, ऐक्यात् परत्वापरत्वाश्रयस्य गुणकर्माश्रयस्य चैक्यादभेदात्, आश्रयतद्वत्ताभावे परत्वापरत्वाश्रये गुणकर्मवत्ताया भावे सति, तबुद्धिधर्मतः परत्वापरत्वबुद्धिलक्षणधर्मात् परत्वमपरत्वं च भवति, तथा च साक्षात्सम्बन्धेन समवायेन परत्वापरत्वे मूर्त्तद्रव्यवर्तिनी एव, किन्तु गुणकर्मस्वाप तबुद्धेर्भावात् तदन्यथानुपपत्त्या स्वाश्रयसमवेतत्वलक्षणपरम्परासम्बन्धेन परत्वापरत्वयोः गुणकर्मसम्बन्धिस्वमभ्युपेयते, उक्तपरम्परासम्बन्धमुपादायैव गुणकर्मणां परापरत्वबुद्धिरित्यर्थः // 15 // द्रव्यत्वगुरुत्वादिगुणान् भावयति द्रव्य-गौरव-संयोग-यत्न-संस्कारजाः क्रियाः / अदृष्टाच्चेति तत्संज्ञाविकल्पौ व्यवहारतः // 16 // द्रव्यगौरवेति / 'द्रव्य” इत्यस्य स्थाने 'द्रव' इति पाठो युक्तः / द्रवगौरव-संयोग-यत्न-संस्कारजाः क्रियाः भावप्रधाननिर्देशाद् द्रवपदेन द्रवत्वस्य ग्रहणं, द्रवत्वजन्या गुरुत्वजन्या संयोगजन्या यत्नजन्या संस्कारजन्या च क्रिया, अदृष्टाच्च च पुनः, अदृष्टजन्या च क्रिया, इति एतस्मात् कारणात्, सत्संज्ञा-विकल्पौ द्रवत्वादिजन्य क्रियानामव्यवसायौ, व्यवहारतः यथा व्यवहारस्तथा शेयौ, अत्र आद्यस्यन्दनासमवायिकारणं द्रवत्वं सांसिद्धिक-नैमित्तिकमेदेन द्विविधं पृथिवी-जल-तेजोवृत्ति, सांसिद्धिकद्रवत्वं जले, परमाणौ तन्नित्यमन्यत्रा . द्रव्य