________________ दिवाकरकृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिंशिका / 359 इत्येवं कर्णविवरपर्यन्तं सन्तानात् ध्वनिः शब्द उत्पद्यते, तत्र मृदङ्गादिशब्दस्यायस्य मृदङ्गादिकरसंयोगो निमित्तकारणं मृदङ्गाकाशसंयोगाकाशसंयोगश्चासमवायिकारणम् द्वितीयादिशब्दे च प्रथमादिशब्दोऽसमवायिकारणम् , एवं वंशादौ पाट्यमाने वंशदलद्वयविभागात् तटतटादिशब्द उपजायते तत्र प्रथमशब्दस्य वंशदलद्वयविभागों निमित्त कारणं वंशदलाकाशविभागोऽसमवायिकारणम् द्वितीयादिकर्णविवरोत्पन. शब्दपर्यन्तमुत्तरोत्तरशब्दं प्रति पूर्वपूर्वशब्दोऽसमवायिकारणम् , अत्र वीचीतरङ्गन्यायेन शब्दोत्पत्तिरावेदिता, तत्र पूर्वपूर्वशब्दादुत्तरोत्तरशब्द एक एव दशदिक्व्यापी समुत्पद्यत इति दशदिक्व्यवस्थितानां श्रोतृणामेकस्य शब्दस्य प्रत्यक्षम् , कस्यचिन्मते कदम्ब कोरकन्यायेन प्रथमशब्दाद् दशदिक्षु दशशब्दा उत्पद्यन्ते, तेभ्योऽपि प्रत्येक दशशब्दा उत्पद्यन्ते इत्येवं कर्णविवरपर्यन्तविभिन्नानां शब्दानामुत्पत्ती श्रोतारो विभिन्नानेव शब्दान् शृण्वन्तीति // 14 // संख्यापरिमाणपृथक्त्वसंयोगविभागाः पञ्च-नवद्रव्यवृत्तयो गुणा निरूपिताः, तन्निरूपण एव क्रियाशब्दौ निरूपितो, अथ परत्वापरत्वे निरूपयति देश-कालविशेषाभ्यां परं च गुणकर्मणाम् / ऐक्यादाश्रयतद्वत्ताभावे तबुद्धिधर्मतः // 15 // देश-कालविशेषाभ्यामिति / देश-कालविशेषाभ्यां देशविशेष-कालविशेषाभ्यां, परं भावप्राधान्यात् परत्वं, चकारादपरत्वं, परत्वं दैशिकं कालिकं च, अपरत्वमपि दैशिकं कालिकं च, तत्र दैशिकं परत्वं दिपिण्डसंयोगासमवाधिकारणकं पृथिवी-जल-तेजो-वायु-मनःस्वरूपं च मूर्त्तवृत्ति, मूर्तसंयोगभूयस्त्वज्ञानलक्षणापेक्षाबुद्धिजन्यं तन्नाशान्नश्यति, दैशिकापरत्वमपि दिपिण्डसंयोगासमवायिकारणकं पञ्चमूर्तवृत्ति, मूत्तंस योगालीयस्त्वज्ञानलक्षणापेक्षाबुद्धिजन्यं तन्नाशान्नश्यति, एवं कालिकं परत्वं कालपिण्डसंयोगासमवायिकारणकं जन्यमूर्त्तवृत्ति, दिवाकरपरिस्पन्दभूयस्त्वज्ञानलक्षणापेक्षाबुद्धिजन्य निरुतापेक्षाबुद्धिनाशान्नश्यति, कालिकापरत्वमपि कालपिण्डसंयोगासमवायिकारणकं जन्यमूर्त्तवृत्ति, दिवाकरपरिस्पन्दाल्पीयस्त्वज्ञानलक्षणापेक्षाबुद्धिजन्यं तन्नाशान्नश्यति च, तत्र कालिकपरत्वा