________________ 358 दिवाकरकृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिशिका / क्रियामात्रासमवायिकारणकत्वेन संयोगविभागावुपदर्शयतिक्रियावतो; तुल्यं च संवियोगाविपक्षितौ / कारणं ध्वनिराभ्यां च संतानात् सलिलोमिवत् // 14 // क्रियावतोर्वेति / 'संवियोगाविपक्षितौ' इत्यस्य स्थाने 'संवियोगयुतस्थितौ' इति पाठो युक्तः / संवियोगयुतस्थितौ क्रियावतोर्वा तुल्यं च कारणम् , आभ्यां च सलिलोमिवत् सन्तानाद् ध्वनि इत्यन्वयः / संवियोगयुतस्थितौ संवियोगो विभागः, युतः संयोगः, तयोः स्थितौ सत्तायां संयोग-विभागयोराद्यक्षणसम्बन्धे इति यावत् / क्रियावतोर्वेत्यत्र वाकारः समुच्चयार्थकः, तेनैकक्रियावतः समुच्चयः, एका क्रियैकस्मिन्नेव वर्तत इत्युभयक्रियाजन्यसंयोग-विभागप्रसिद्धये क्रियावतोरिति अन्यतरक्रियाजन्यसंयोग-विभागप्रसिद्धये क्रियावत इत्यस्य समुच्चय इति बोध्यम् , तुल्यं च समानं च, कारणमिति भावप्रधाननिर्देशात् कारणत्वम् , तथा च संयोग-विभागौ प्रति स्वोत्तरोत्पन्नभावान्तरापेक्षं कारणं कर्मेति कर्मलक्षणमावेदितं भवति, विशिष्ट कारणत्वान्वये विशेषणस्यापि कारणत्वान्वय इति क्रियायाः कारणत्वमायाति, तुल्यमित्युपादानात् संयोगस्य संयोगं प्रति यत् कारणत्वं न तत् संयोगं प्रतोति तयोर्व्यवच्छेदः, एवं च एकक्रियाजन्योभयक्रियाजन्यसंयोगजसंयोगमेदेन संयोगस्त्रिविधः, तत्र पक्षिक्रियाजन्यः पक्षितरुसंयोग एकक्रियाजन्यः, मेयद्वयक्रियाजन्यो मेषयोः संयोग उभयक्रियाजन्यः, कपालतरुसंयोगात् कुम्भतरुसंयोगः संयोगजसंयोगः, अभिघात-नोदनभेदेनापि संयोगस्य द्वैविध्यम् , तत्र शब्दहेतुः संयोगोऽभिघातः, शब्दाहेतुः संयोगो नोदनम् , एवं विभागोऽप्येककियाजन्योभयक्रियाजन्यविभागजभेदेन त्रिविधः, पक्षिक्रियया पक्षितरुविभाग एक. क्रियाजन्यः, मेषद्वयक्रियया मेषद्वयविभाग उभयक्रियाजन्यः, विभागजविभागश्च द्विविधो हेतुमात्रविभागजन्यो हेत्व हेतुविभागजन्यश्च, तत्र कपालद्वयाविभागात् कपालाकाशविभागो हेतुमात्रविभागजन्यः, कपालतरुविभागात् कुम्भतरुविभागो हेत्वहेतुविभागजन्य इति, आभ्यां च संयोग-विभागाभ्यां पुनः, सलिलोमिवत् यथा जलतरङ्गः एकतरङ्गानन्तरं द्वितीयस्तदनन्तरं तृतीय इत्येवंक्रमेण तटपर्यन्तमुत्पयते, तथा सन्तानात् एकशब्दानन्तरं द्वितीयस्तदनन्तरं तृतीय