________________ दिवाकर कृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिंशिका। 357 विभज्यमानानुपदर्शयति-दीर्घ वाकारस्य चकारार्थसमुच्चयार्थकत्वं, एवं ह्रस्वं वेत्यत्रापि, परिमण्डल अणुपरिमाणम् , एषां चतुर्णामपि परिमाणानां मध्यमपरममेदेन द्वैविध्यम् , एवं च मध्यम-महत्परिमाणं परममहत्परिमाणम् , तत्र मध्यम-महत्परिमाणम् त्र्यणुकावयविनमारभ्यान्त्यावयविपर्यन्तेषु वर्तते, परममहत्परिमाणं चाकाश-काल-दिगात्मसु, मध्यम-दीर्घ-परिमाणं च मध्यम-महत्परिमाणाश्रयेषु वर्तते, परमदोघपरिमाणं च परममहत्परिमाणाश्रयेषु वर्तते, मध्यमह्रस्वपरिमाणं द्वयणुके वर्तते, परमहत्वपरिमाण परमाणौ वर्तते, मध्यमाणुपरिमाण द्वयणुके वर्तते, परमाणुपरिमाणं परमाणौ वर्तते, परमाणवश्च पृथिवी-जल-तेजोवायूनां मनस्यपि परमहस्वपरमाणुपरिमाणे इति बोध्यम् , परिमाणं च सामान्यतो नवसु द्रव्येषु वर्तते, रूप-स्पर्शवद रूपेति र सस्यापि उपलक्षणं, गन्धस्य सर्वस्यानित्यत्वान्न तद्ग्रहणम् रूप-रस-स्पर्शा यथा नित्या अनित्याश्च नित्यजलतेजो-वायुपरमाणुगता नित्याः तदन्यगता अनित्याः, एवं परिमाणमपि नित्यद्रव्यगतं नित्यम् अनित्यद्रव्यगतमनित्यमाश्रयनाशान्नश्यतीति, रूप-स्पर्शवदित्यस्य देहलोदीपन्यायेनोत्तरत्राप्यन्वयः, 'एकत्वं पृथक्त्वे' इत्यस्य स्थाने 'एकत्व-पृथक्त्वे' इति पाठो युक्तः, 'वृत्तिजन्मनः' इत्यस्य स्थाने च 'वृत्तिजन्मतः' इति पाठो युक्तः, 'तुल्ये' इति शेषः / एकत्व पृथक्त्वे एकत्वसङ्ख्यैकपृथक्त्वे पृथक्त्वपदे. नैकपृथक्तवस्य ग्रहणात् , रूप-स्पर्शवदेकत्वैकपृथक्त्वे नित्यद्रव्यगते नित्ये अनित्यद्रव्यगत भनित्ये, वृत्तिजन्मतः वृत्त्या जन्मना च तुल्ये यथैकत्वसंख्या नवसु द्रव्येषु वर्तते तथैक-पृथक्त्वमपि नवसु द्रव्येषु वर्तते, यथा चावयवगतैकत्वाभ्याभवयविद्रव्ये एकत्वमुत्पद्यते तथाऽवयवगतैकपृथक्त्वाभ्यामवयविद्रव्ये एकपृथक्त्वमुत्पद्यते, एकत्वसङ्घयै कपृथक्त्वयोविशिष्योपादानाद् द्वित्वादिपरार्द्धपर्यन्तसङ्ख्या द्विपृथक्त्वादिपराधपर्यन्तपृथक्त्वानि न नित्यानित्यमेदेन द्विविधानि किन्त्वनित्यान्येव, अपेक्षाबुद्धिजन्यानि अपेक्षाबुद्धिनाशान्नश्यन्ति च अनेकैकत्वबुद्धिरपेक्षाबुद्धिः प्रथमक्षणे अयमेकोऽयमेक इत्यपेक्षाबुद्धिः ततो द्वित्वाद्युत्पत्तिस्ततो द्वित्वत्वादिनिर्विकल रकज्ञानं ततो द्वित्वादिप्रत्यक्षमपेक्षाबुद्धिनाशश्च ततो द्वित्वादिविशिष्टद्रव्यप्रत्यक्षमपेक्षाबुद्धिनाशाद् द्वित्वादिनाशश्च द्विपृथक्त्वादिनाशोत्पादावप्येवमेव बोध्यौ // 13 //