________________ 356 दिवाकरकृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिंशिका / लव-पल-दण्ड-मुहूर्त-प्रहर-दिन-पक्ष-मास-वर्षादिविभिन्नव्यवहारलक्षणकार्यबलात् कालो नाना, तथेयं प्राची इयमवाची इयं प्रतीची इयं दक्षिणेति विभिन्नव्यवहार-'' बलाद् दिगपि नानाऽनेका, तथा च काल-दिशोः स्वरूपत एकत्वेऽप्युपाधिभेदतोऽनेकत्वमित्यर्थः // 11 // मनसः सिदिनुपदर्शयतिआत्मेन्द्रियादिसंयोगे बुद्धयभावाच्च मानवः / बुद्धयादेरात्मनः खादि शब्दादिविभवान्महत् // 12 // आत्मेन्द्रियादिसंयोग इति / 'मानवः' इत्यस्य स्थाने 'मानसः' इति पाठो युक्तः / आत्मेन्द्रियादिसंयोगे आत्मनो बहिरिन्द्रियेण बहिरिन्द्रियस्य चक्षुरादेविषयेण घटादिना संयोगे सत्यपि, बुद्धयभावाच्च चाक्षुषादिप्रत्यक्षाभावात् पुनः, मानसः मनसोऽस्तित्वं भवति, चक्षुरादीनां स्वस्वग्राःि समं युगपत्संयोगेऽपि न युगपत्सन्द्रियअन्यज्ञानसंभवः, किन्तु येन सह यस्येन्द्रियस्य संयोगोऽस्ति तदिन्द्रय जन्यज्ञानं भवति, येन सह संयोगाभावादन्येन्द्रियेण ज्ञानं न जायते तदन्त:करणं मनः, तस्य महत्त्वे सर्वेन्द्रियैस्तत्संयुक्तयुगपतस्वस्वविषयसंयोगतः सर्वविषयकज्ञान प्रसज्येतेत्यतोऽणुमन इत्यर्थः, बुद्धयादेः बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्न-धर्माधर्म-भावनाख्यनवसंख्यकविशेषगुणस्य आश्रयतया, आत्मनः जीवात्मनः बुद्धीच्छाप्रयत्नलक्षणविशेषगुणाश्रयतया च परमात्मन ईश्वरस्य सिद्धिरित्यर्थः, शब्दादिविभवात् आकाशगुणस्यात्मगुणस्य ज्ञानादेः काल-दिक्कार्यस्य परत्वापरत्वादेश्च विभवात् विशेषेण भवनादुत्पादात् , महत् परममहत्परिमाणवत् , खादि आकाश-काल-दिगात्मचतुष्टयम् , यद्याकाशादिचतुष्टयं परममहत् परिमाणवन्न भवेत् न भवेच्छब्दादेविभिन्नदेशेषत्पादः किन्तु यत्रैव प्रदेशे परिच्छिन्नपरिमाणवदाकाशादि स्यात् तत्रैव शब्दादेरुत्पादो भवेदित्यर्थः // 12 // प्रकारान्तरेणापि परममहत्परिमाणं सिद्धथतीत्याहप्रपञ्चादपि दीर्घ वा इम्ब वा परिमण्डलम् / रूप-स्पर्शवदेकत्वं पृथक्त्वे वृत्तिजन्मनः॥१३॥ प्रपञ्चादपीति / प्रपञ्चादपि परिमाणस्य अणु-महद्-दीर्घ ह्रस्वं चेत्येवं चातुर्विध्येन विभजनादपि, महत्परिमाणस्यानन्तरमेवाभिहितत्वात् तदतिरिक्त