________________ दिवाकरकृता किरणावलोकलिता चतुर्दशी वैशेषिकद्वात्रिंशिका। 355 सामान्यं उत्क्षेपणादिकं एतानि संख्यादिभावकर्माणि, 'यथापाश्रयोगतः' इत्यस्य स्थाने 'यथोपाश्रययोगतः' इति पाठो युक्तः। यथोपांश्रययोगतः उपाश्रयो योग्याधारलक्षणस्थानं यथायोग्याधारसम्बन्धादिति तदर्थः चक्षुरादिभिर्माह्याणीति सम्बध्यते, अत्रात्मयोग्यतद्विशेषगुणग्रहणं मनसेति नाधिकृतं, तथा च संख्यापरिमाणादयो गुणाश्चक्षुस्त्वगूग्रहणद्रव्यवर्तिनश्चक्षुषा त्वचा गृह्यन्त इति द्वीन्द्रियग्राह्याः तथा द्वीन्द्रियग्राह्यद्रव्यगता जातयोऽपि द्वीन्द्रियग्राह्याः, एवं कर्मापि द्वीन्द्रियग्राह्यम् , रूपादीनां प्रतिनियतचक्षुराद्यकैकेन्द्रियग्राह्यत्वात् तद्गतानां रूपत्वादिजातीनामेकैकेन्द्रियग्राह्यत्वं, संख्यात्वादीनां द्वीन्द्रियग्राह्यत्वं एवं कर्मत्वस्यापि द्वीन्द्रियग्राह्यत्वं द्रव्यगुणकर्मवर्तिन्याः सत्ता जातेर्गुणत्वस्य च सर्वेन्द्रियग्राह्यत्वमिति निष्कर्षः / / 10 // पृथिव्यादीनि खान्तानि वैशेषिकगुणार्पणादित्यनेन तत्तद्विशेषगुणाधारतया पृथिवी-जल-तेजोवाय्वाकाशाख्यानि पञ्चभूतद्रव्याणि साधितानि काल-दिगात्ममनसां चतुर्णा द्रव्याणां साधनायाह सेतरैर्युगपक्षिप्त परत्वैः कालसंभवम् / इदमस्मादिति दिशो नानाकार्यविशेषतः // 11 // सेतरैरिति / 'युगपत्क्षिप्तं परत्वैः' इत्यस्य स्थाने 'युगपक्षिप्रपरत्वैः' इति पाठो युक्तः / सेतरैः स्वप्रतिपक्षसहितः, युगपत्क्षिप्रपरत्वैः पाकजा रूपरस-गन्ध-स्पर्शा युगपज्जायन्ते, इदं कार्य क्षिप्र शीघ्रं समुत्पन्नं, देवदत्तो यज्ञदत्तात् परो ज्येष्ठ इत्यादि प्रतीतिसिद्धेः, युगपदित्यस्य प्रतिपक्षोऽयुगपदिति क्षिप्रस्य प्रतिपक्षाऽक्षिमिति परत्वस्य प्रतिपक्षमपरत्वमिति तथा च युगपदयुगपत्-क्षिप्रा. क्षिप्र परवापरत्वैः, दैशिक-कालिकभेदेन परत्वापरत्वे द्विविधे, तत्र दैशिकं परत्वं दूरत्वम्, दैशिकमपरत्वमन्तिकत्वम् , कालिकपरत्वं ज्येष्ठत्वं, कालिकमपरत्वं कनिष्ठत्वम् , प्रकृते कालिकपरत्वापरत्वयोर्ग्रहणम् , कालसम्भवम् कालस्यास्तित्वम् , युगपदयुगपदित्यादिबुद्धिनिमित्तं कालद्रव्यमित्यर्थः, इदमस्मादिति दिशः सम्भवमित्येतावन्मात्रमाकृष्य सम्बध्यते, इदमस्माद् दूरमिदमस्मादन्तिकमिति प्रतीतिनिमित्ततया दिशोऽस्तित्वमित्यर्थः, नानाकार्यविशेषतः यद्यपि स्वरूपतः काल एक एव, दिक् च स्वरूपत एकैव, तथापि विभिन्नकार्यबलात् क्षण