________________ 354 दिवाकरकृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिंशिका / किन्तु शब्दग्राहकं श्रोत्रेन्द्रियं कर्णविवरवाकाशस्यैव श्रोत्रत्वात्, इन्द्रियस्य पार्थिवत्वादिनाऽत्रानभिधानेऽपि तत्प्रयोजनस्यानन्तरमेव वक्ष्यमाणत्वेन तदुपलक्षणं ज्ञेयमित्यर्थः // 9 // केनेन्द्रियेण कस्य ग्रहणमित्याकाङ्क्षायामाह त्वचक्षुर्ग्रहणं द्रव्यं रूपाद्याश्चक्षुरादिभिः। संख्यादिभावकर्माणि यथाऽपाश्रययोगतः // 10 // त्वक् चक्षुर्ग्रहणमिति / त्वक्-चक्षुग्रहण त्वक्-चक्षुा त्वगिन्द्रियनयनेन्द्रियाभ्यां ग्रहणं प्रत्यक्ष यस्य त्वक्चक्षुर्गहणं त्वक्चक्षुरुभयेन्द्रियजन्यद्रव्यप्रत्यक्षविषयः, द्रव्यं पृथिव्यादि, वैशेषिकमते बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षं प्रति उद्भूतरूपं कारणमिति त्वाचप्रत्यक्षं प्रत्यप्युद्भूतरूपं कारणमिति वायोरुद्भूतरूपाभावात् त्वगिन्द्रियेणापि ग्रहणं न भवत्येवेति वायुरप्रत्यक्ष इति तदभिप्रायेण स्वक्-चक्षुम्रहणं द्रव्यमिति, अत्र द्रव्यपदं बहिर्द्रव्यपरं, तेनात्मद्रव्यस्य मानसप्रत्यक्षेकविषयस्य त्वक्-चक्षुर्गहणाभावेऽपि न क्षतिः, प्रत्यक्षयोग्यमेव बहिर्द्रव्यमत्र ग्राह्य तेमातीन्द्रियाणां परमाण्वाकाशादिबहिद्रव्याणां त्वक्-चक्षुर्गहणाभावेऽपि न किञ्चित् क्षुण्णम् . नव्यास्तु चाक्षुषप्रत्यक्षे उद्भूतरूपं कारणं, त्वाचप्रत्यक्षे चोद्भूतस्पर्शः कारणमिति द्विविधः कार्य-कारणभावः, न तु बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षे उद्भूगररू'म् , उद्भूतस्पर्शो वा करणं प्रभायाश्चक्षुरिन्द्रि येणेव वायोस्त्वगिन्द्रियेणापि प्रहणं भवत्येव, प्रभां पश्यामीतिवत् वायुं स्पृशामीत्यनुभवस्य भावात् , अनुभवान. नुरोधे बहिरिन्द्रियजन्यद्रव्यप्रत्यक्ष प्रति उद्भूतस्पर्श एव कारणमस्तु, प्रभाप्रत्यक्षाभावः इष्ट एवेत्यपि ब्रवतो न वक्त्रं वक्रीभवेदिति, रूपाद्या रूप-रसगन्ध-स्पर्शशब्दाः, चक्षुरादिभिः ग्राह्या इति शेषः, चक्षुराद्यकैकेन्द्रियग्राह्या इति तदर्थः, चक्षुर्गहणं रूपं रसनग्राह्यो रसः घ्राणग्राह्यो गन्धः त्वगिन्द्रियग्राह्यः स्पर्शः श्रोत्रेन्द्रियग्राह्यः शब्द इति यावत्, संख्यादिभावकर्माणि संख्याद्याश्च भावश्च कर्म च संख्यादिभावकर्माणि, तत्र संख्या-परिमाण-पृथक्त्व-संयोगविभाग-परत्वापरत्व-द्रवत्व-वेगशब्दाः संख्याद्या गुणाः, भावः सत्त्वद्रव्यत्व-गुणत्व-कर्मत्वादि