SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिंशिका / 353 शरीरजनकाः, गन्धवती पृथिवी गन्धगुणसामर्थ्यात् मानुषादिशरीरे भस्मीभूते तद्भस्मनि गन्ध एवोपलभ्यते न स्नेहोष्णस्पर्शादिकं गन्धवत्त्वात् तद्भस्मपार्थिव यद् द्रव्यं यद्रव्यध्वंसजन्यं तत्तदुपादानोपादेयमिति नियमतः तदुपादानोपादेयभूतस्य शरीरमपि पार्थिवम् एवं जलादिगुणस्नेहादीनां जलीयादिशरीरभस्मादावुपलम्भादुपतदिशा तदुपादानोपादेयशरीरे जलीयत्वादिकमित्येवं पृथक्शरीरजनका इति, अत्र पृथिवी नित्याऽनित्या च, तत्र परमाणुपृथिवी नित्या, द्वथणुकादिघटाद्यन्तावयविरूपा पृथिव्यनित्या, अनित्या च पृथिवी शरीरेन्द्रियविषयमेदेन त्रिधा, तत्र पार्थिवशरीर योनिजायोनिजभेदेन द्विविधम् , मानुषादिशरीरं योनिजम् , जरायुजम् सरीसृपादिशरीरं योनिजमप्यण्डजम् , मशकादिशरीरमयोनिजमेव, पार्थिवत्वेन सर्वेषां शरीराणामेकजातीयत्वेऽप्ययोनिजत्वं कथमित्याकाक्षायामाह-हेतुभेदात् कारणभेदात् , तु पुनः, अयोनिजम् अयोनिजमपि, अपिशब्दोऽत्र योनिअपरिग्रहार्थमवश्यमेवोपादेयः, घ्राणेन्द्रियं च पार्थिव रूपादिषु मध्ये गन्धस्यैवाभिव्यञ्जकत्वात् कुद्धमगन्धाभिव्यञ्जकोदकवदिप्ति उपभोगसाधनं विषयः द्वषणुकादि ब्रह्माण्डान्तं कार्यजातं साक्षात् परम्परया वा सुख-दुःखादिलक्षणफलोपभोगं जनयत्येवादृष्टाधीनत्वात् , यत् कार्य यत्पुरुषीया दृष्टजन्यं तस्यैव तदुपभोगसाधनत्वमिति, एवं जल. मपि नित्यमनित्यं च, तत्र परमाणुरूपं जलं नित्यं, द्वयणुकाद्यवयविरूपं सर्वमेव जलमनित्यम् , तदपि शरीरेन्द्रियविषयभेदेन त्रिविधम् , जलीयं शरीरमयोनिजमेव वरुणलोके प्रसिद्ध 'रसनमिन्द्रियं जलीयं रूपादिषु मध्ये रसस्यैवाभिव्यञ्जकत्वात् सक्तुरसाभिव्यञ्जकोदकवदिति शरीरेन्द्रिययो रूपभोगसाधनत्वेऽपि विषयकोटिबहिर्भावाय विषयलक्षणे शरीरेन्द्रियभिन्नत्वमुपादेयम्, तेन शरीरेन्द्रियभिन्नकार्य जलं सर्वमेव विषय इति, तेजोऽपि नित्यानित्यमेदेन द्विविधं जलादिवदवसेयम्, मयनं तैजसं रूपादिषु मध्ये रूपस्यैवाभिव्यञ्जकत्वात् प्रदीपप्रभावत्, वायुरपि तेजोवदवसेवयः, किन्तु त्वगिन्द्रियं वायवीयं रूपादिषु मध्ये स्पर्शस्यैवाभिव्यञ्जकत्वात् अङ्गसङ्गिसलिलशैत्याभिव्यञ्जकव्यजनवातवत् , तैजसशरीरमिन्द्रादिलोके, वायवीयशरीरं वायुलोके प्रसिद्धम् , आकाशस्य नित्यैकरूपस्य शरीरविषयौ न स्तः,
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy