________________ 352 दिवाकर कृता किरणावलीकलिता चतुर्दशो वैशेषिकद्वात्रिंशिका / वायुगुणस्य यावद्रव्यभावित्वं, ततो विशेष आद्यशब्दस्य संयोगाद् विशेषाद् वा जन्म द्वितीयादिशब्दस्य स्वाव्यवहितपूर्वपूर्वशब्दाजन्म अयावद्दव्यभावित्वं च शब्दस्य, वायुगुणस्य स्पर्शस्य त्वगिन्द्रियग्राह्यत्वं न श्रोत्रेन्द्रियग्राह्यत्वं शब्दस्य च श्रोत्रेन्द्रियग्राह्यत्वं न त्वगिन्द्रियग्राह्यत्वमित्येवं रूपादिजन्मधर्मविशेषतः शब्दः, न नैव, वाय्वन्तानां पृथिवी-जल-तेजो-वायूनां गुण इति शेषः, अत्र शब्दो न स्पर्शवतां विशेष गुणः अग्निसंयोगासमवायिकारणकत्वाभावे सति अकारणगुणपूर्व कप्रत्यक्षत्वात् इत्यन्यत्रोक्तमनुसन्धेयम , 'शब्दो नित्य' इति मीमांसकाऽभ्युपगछन्ति तत्प्रतिक्षेपायाह-अनित्यस्त्विति साधात् अनित्यानां घट-पटादीनामुत्पत्तिमत्त्व विनाशित्वलक्षणसमानधर्मवत्त्वात् शब्दोऽनित्यः, तदुक्तम् "उत्पन्नः [च] को विनिष्ट इति बुद्धरनित्यता / सोऽयं क इति बुद्धिस्तु सा जात्यमवलम्बते // 4 // तदेवौषधमित्यादौ सजातीयेऽपि दर्शनात् / " इति ननु शब्दप्रतिपाद्यो घटादिरनित्य आकाशादिनित्य इत्येवमों यथा नित्योऽनित्यश्च भवेदित्यत आह-सर्वार्थत्वाच्च एकोऽपि शब्दः शक्तिलक्षणाख्यवृत्तिभ्यां सर्वार्थो भवितुमर्हति तथा चार्थस्य नित्यत्वेन नित्यार्थप्रतिपादकत्वेन शब्दस्य नित्यत्वम् अर्थस्यानित्यत्वेनानित्यार्थप्रतिपादकत्वेन शब्दस्यानित्यत्वमिति यद्यभ्युपेयेत तदैकशब्दव्यक्तेरपि नित्यत्वानित्यत्वोभयधर्मवत्त्वं प्रसज्येत, न च परस्परविरुद्धं तदुभयमेकस्मिन् सम्भवतीत्यतः, अर्थवत् यथाऽर्थो नित्योऽनिन्यश्च तथा न शब्दः सर्वार्थत्वात् नित्यानित्यसर्वार्थप्रतिपादकत्वादित्यर्थः // 8 // पृथिवी-जल-तेजो वायूनां विभिन्नात यानां स्वस्वजातीययोनिजायोनिजशरीरजनकत्वमुपदर्शयति रूपादीनां स्वजातीयाः सामर्थ्याद् वसुधादयः / पृथक्शरीरजनका हेतुभेदात् त्वयोनिजम् // 9 // रूपादीनामिति / रूपादीनां रूप-रस-गन्ध स्पर्शानां, सामर्थ्याद् विभिन्नकार्यजनकसामर्थ्यात् , स्वजातीयाः जन्यतयाभिमतेन्द्रियसमानजातीयाः, पृथिवीस्वादिना पुनर्विभिन्नजातीयाः, वसुधादयः पृथिवी जल-तेजो-चायवः, पृथक्