________________ दिवाकर कृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिंशिका / 351 सिद्धयति ततोऽपकिजानुष्णाशीतस्पर्शात्मकविशेषगुणार्पणात् वायुरिति, आकाशस्यैकव्यक्तित्वात् "व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः / रूपहानिरसम्बन्धो ज्ञातिबाधकसङ्ग्रहः // 3 // " इति वचनाद् व्यक्तभेदस्य जातिबाधकत्वेनाकाशत्वं न जातिः आकाशस्य सन्दं प्रति कारणत्वं तु व्यावर्तकतयासिद्धविशेषवत्त्वेनेति आकाशस्य शब्दाश्रयत्वं शब्दसमवायिकारणत्वं वा लक्षणमिति शब्दात्मकविशेषगुणार्पणादाकाशव्यवस्थितिः, भूतत्वं च तेषां बहिरिन्द्रियजन्यजौकिकप्रत्यक्षस्वरूपयोग्यविशेषगुणवत्त्वमिति, भात्मगतज्ञानादिविशेषगुणसम्भवः कथं येन ज्ञानादिनवविशेषगुणार्पणादात्मव्यवस्थितिरित्याकाङ्क्षायामाह-प्राणादियानायानेन इति प्राणादियानायानेन प्राणदिपञ्चाध्यात्मवायु-चक्षुरादिपञ्चेन्द्रियमनसी पूर्वोपात्तशरीराद् बहिर्गमनाभिनवशरीरान्तःप्रवेशलक्षणप्रेत्यभावेन, तच्छेषगुणसम्भवः पञ्चभूतविशेषगुणभिन्नज्ञानादिविशेषगुणसम्भवः शरीरं परित्यज्य यदा प्राणादिकं गच्छति तदा ज्ञानादीमामभावः सदा च शरीरे प्राणादिकमागच्छति तदा ज्ञानादिगुणानां भावः, यदि च शरीरस्य ज्ञानादिकं स्यात् तदा प्राणादीनामभावे मृतशरीरेऽपि ज्ञानं स्वादिति शरीरव्यतिरिक्तस्यात्मनो ज्ञानादिगुण इति ज्ञानादिगुणाश्रयत्वेनात्मनः सिद्धिरित्यर्थः // // पृथिवी जल तेजो वायूनां-तदन्यतमस्य वाशब्दो गुणोऽस्तु किमाकाशद्रव्यस्यातिरिकस्य कल्पनयेत्याशङ्कयमाह वास्वन्तानां न रूपादिजन्मधर्मविशेषतः। शब्दो नित्यस्तु साधर्म्यात् सर्वार्थत्वाच्च नाथवेत् // 8 // वाय्वन्तानामिति / “रूपादिजन्मधर्मविशेषतः न वाय्वन्तानां शब्दः साधाद् अनित्यस्तु सर्वार्थत्वाचार्थवन्न" इत्यन्वयः / 'शब्दो नित्यस्तु' इत्यस्यस्थाने 'शब्दः-अनित्यस्तु' इति पाठो युक्तः / रूपादिजन्मधर्मविशेषतः रूपादीमां रूप-रस-गन्ध-स्पर्शानां पाकजानां विलक्षणतेबस्संयोगाज्जन्म, अपाकजानां रूप-रस-गन्ध-स्पर्शामाम् अषयविगतानां भवयवमलरूप-रस-गन्ध-स्वर्वेभ्यो जन्म, धर्मः