________________ 350 दिवाकरकृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिशिका / कारस्य तेषम् इत्यनेनान्वयात् , तेषामेव परमाणूनामेव, एवकारेणावयविनो व्यवच्छेदः, पाकजाः विलक्षणतेजस्संयोगः पाकस्तज्जन्या रूप-रस-गन्ध-स्पर्शाः सन्ति भवन्ति, वैशेषिकमते पार्थिवपरमाणुप्वेव पाकः पाकेन रूप-रस गन्धस्पर्शाः पार्थिवपरमाणुष्वेव जायन्ते, परमाणुरूप-रस-गन्ध-स्पर्शेभ्यो द्वयणुकेषु रूपरस-गन्ध-स्पर्शा जायन्ते, तेभ्यश्च त्र्यणुके ते, एवंक्रमेण चरमावयविपर्यन्तमवयवगुणेभ्यः एव रूप-रस-गन्धस्य स्पर्शेभ्योऽवयविषु रूप-रस-गन्ध-स्पर्शा जायन्त इति ते अपाकजा इत्यर्थः, नैयायिकमते तु अवयविन्यपि पाक इति पार्थिवावयविष्वपि रूप-रस-गन्ध-स्पर्शा भवन्तीत्यर्थः // 6 // पृथिव्यादिद्रव्यव्यवस्था वैशेषिकगुणयोगेनोपदर्शयतिपृथिव्यादीनि खान्तानि वैशेषिकगुणार्पणात् / प्राणादियानायानेन तच्छेषगुणसंभवः // 7 // पृथिव्यादीनीति / पृथिव्यादीनि खान्तानि पृथिवी-जल-तेजो-वाय्वाकाशाख्यानि पञ्चभूतानि, वैशेषिकगुणार्पणात् पृथिव्या यद्यपि रूप-रस-गन्धस्पर्शाश्चत्वारोऽपि विशेषगुणास्तथापि इयं पृथिवीति व्यवस्था गन्धगुणेन, गन्धसमवायिकारणतावच्छेदकतया पृथिवीत्य जातिः सिद्धयति, गन्धवत्त्वं पृथिव्या लक्षणमिति गन्धगुणार्पणात् पृथिवीति, रूप-रस-स्पर्शसांसिद्धिकद्रवत्वस्नेहाः पञ्चविशेषगुणा जलस्य, तत्र जन्यस्नेहसमवायिकारणतावच्छेदकतया जन्यजलत्वं तदवच्छिन्नसमवायिकारणतावच्छेदकतया नित्यानित्यजलसाधारणं जलत्वसामान्य सिध्यतीति इदं जलमिति व्यवस्था स्नेहगुणेन, स्नेहवत्त्वं जलस्य लक्षणमिति स्नेहात्मकविशेषगुणार्पणात् जलमिति शीतस्पर्शवत्त्वसांसिद्धिकद्रवत्त्ववत्त्वे अपि जललक्षणे ताभ्यामपि भवति जलव्यवस्था भास्वरशुक्लरूपोष्णस्पशौं तेजसो विशेषगुणौ भास्वरशुक्लरूपसमवायिकारणतावच्छेदकतया उष्णस्पर्शसमवायिकारणतावच्छेदकतया च तेजस्त्वसामान्यं सिद्धयति ततो भास्वरशुक्लरूपोष्णस्पर्शात्मकविशेषगुणार्पणात् तेज इति अपाकजानुष्णशीतस्पर्शवत्त्वं वायोलक्षणं अपाकजानुष्णाशोतस्पर्शसमवायिकारणतावच्छेदकतया वायुत्व जातिः