________________ दिवाकर कृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वाविंशिका। 359 एवमस्तीत्याकारसाम्येऽपि विधा प्रकारः, त्रिधा त्रिप्रकारमनुमानमित्यर्थः, 'तुल्यत्वेत्यनुमान' इत्यस्य स्थाने 'तुल्यत्वेऽप्यनुमानं' इति पाठो युक्तः, पूर्ववत् शेषवत् सामान्यतो दृष्टं चेत्येवं विधानुमानम् , तत्र कारणेन कार्यानुमानं पूर्ववत्, कार्येण कारणानुमान शेषवत् , कारण-कार्यभिन्नलिङ्गेनानुमानं सामान्यतो दृष्टम्, अथवा केवलान्वय्यनुमानं केवलव्यतिरेक्यनुमानं अन्वय-व्यतिरेवयनुमानं चेत्येवमनुमानस्य त्रैविध्यमित्यर्थः // 5 // अतीन्द्रियाणां परमाणूनां पृथिव्यादिनाना जातीयानां पाकजगन्धादिगुणवतां साधनायेदमाह संयोगजत्वात् कार्यस्य कारणं परमाणवः / दृष्टवन्नैकजातीयास्तेषां सन्त्येव पाकजाः // 6 // संयोगजत्वादिति / “कार्यस्य संयोगजत्वात् परमाणवः कारणं दृष्टवत् , एकजातोयाः न, तेषां पाकजाः सन्त्येव" इत्यन्वयः / कार्यस्य अवयविद्रव्यस्य, संयोगजत्वात् अवयवद्वयादिसंयोगजन्यत्वात्, सामान्यतः समवायेनावयविद्रव्यं प्रति समवायेनावयवसंयोगोऽसमवायिकारणम् , विशेषतस्तु समवायेन घट. त्वावच्छिन्नं प्रति समवायेन कपालद्वयसंयोगः कारणम् , एवं समवायेन पटत्वावच्छिन्नं प्रति समवायेन तन्तुद्वयादिसंयोगः कारणमित्यादि एवं च घटस्य कपालद्वयसंयोगः कारणं, कपालस्य कालिकाद्वयसंयोगः कारणमित्येवं द्वयणुकस्य परमाणुद्रयसंयोगोऽसमवायिकारण, समवायेन कार्य प्रति तादात्म्यसम्बन्धेन यत् कारण तत्र वर्तमान सत्कारणमसमवायिकारणमिति द्वयणुकलक्षणकार्यरय परमाणवः समवायिकारणमित्याह-कारणं परमाणव इति ते च परमाणवः, एकजातीया असाधारणैकजातिमन्तः पार्थिवा एव, जलीया एव, तैजसा एव, वायवीया एव, इति न किन्तु विभिन्नजातीयाः पार्थिवद्वथणुकजनकाः पार्थिवाः, जलीयद्वथणुकजनका जलीयाः, तैजसद्वषणुकजनकास्तैजसाः, वायवीयद्वयणुकजनका वायवीया इत्येवं पृथिवीत्वादिविभिन्नजातिमन्तः परमाणवः तत्र निदर्शनमाह-दृष्टवदिति यथा यथा पार्थिवाद्याः कपालाद्याः पार्थिवादिस्वजातीयानां घटादीनां जनका विभिन्नजातीया एव नैकजातीयास्तथा परमाणवोऽपीत्यर्थः, सन्त्येव इत्येव