________________ 348 दिवाकरकृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिंशिका / तदभावस्यापि तेनेन्द्रियेग प्रगक्षमिति तत्प्रत्यक्ष विशेष्य विशेषणभावसन्ति-- कर्षाद् भवति, तत्र द्रव्यवृत्त्यभावप्रत्यक्षमिन्द्रियसंयुक्तविशेषणतासन्निकर्षण द्रव्यसमवेतवृत्त्यभावप्रत्यक्षमिन्द्रियसंयुस्तसमवेतविशेषणतया भवतीत्यादिविशेष्य. विशेषणभावस्य बहवः प्रकारा ज्ञेयाः, विशेषणतात्वस्यैक्यात् तेषामेकतया गणनमिति प्राचां षोढा सन्निकर्ष इति प्रवादो न व्याहन्यते, एतन्मते समवायस्यातीन्द्रियत्वात् तल्लौकिकप्रत्यक्षं न भवति, यावत्सम्बन्धिप्रत्यक्षे सत्येव इति नियमस्याश्रयणात् , एतन्नियमानभ्युपगन्तृन्यायमते तु समवायस्यापि प्रत्यक्ष भवति तदपि विशेष्य-विशेषणभावादेवेति, एतद् षड्विधलौकिकसन्निकर्षप्रभवं प्रत्यक्षं लौकिका यक्षमिति गीयते, अलौकिकसंनिकर्षस्तु सामान्यलक्षण-ज्ञानलक्षण - योगजभेदेन त्रिविधः, एकघटव्यक्तिलौकिकप्रत्यक्षानन्तरं सकलघटानां घटत्वेन प्रत्यक्ष यद् भवति तत्रेन्द्रियसम्बन्धघटविशेष्य कज्ञानप्रकारीभूतं घटत्वसमान्य प्रत्यासत्तिः, घ्राणेन्द्रियजन्यगन्धप्रत्यक्षानन्तरं चक्षुषा सुरभिचन्दनमित प्रत्यक्षं भवति तत्र सौरभगन्धमान सौरभज्ञानलक्षणसन्निकर्षण, योगिनामैन्द्रियकातीन्द्रियभूतभाविवर्तमानसकलपदार्थविषयकं सर्वप्रत्यक्षं . योगाभ्यासकजनितधर्मविशेषलक्षणयोगजसन्निकर्षेणेति, अनुमानं पुनः साध्यव्याप्पहेतुमान् पक्ष इति परामर्शमनितं, पक्षः साध्यवानिति ज्ञानमिति तद्विविधज्ञानोपदर्शनायाह प्रत्यक्षविषयाख्यातिस्तत्संबन्धि विरोधि वा / अस्त्येवमिति तुल्यत्वेत्यनुमान विधा त्रिधा // 5 // प्रत्यक्षविषयाख्यातिरिति / अत्र 'प्रत्यक्षं विषयाख्यातिः' इति पाठो युक्तः / “विषयाख्यातिः प्रत्यक्षं तत्सम्बन्धि वा विरोधि अनुमानं एवमस्तीति तुल्यत्वेऽपि विधा त्रिधा'' इत्यन्वयः / विषयाख्यातिः विषयस्येन्द्रियसम्बद्धार्थस्य, आसमन्तात् ल गतिः अष्टज्ञानमिति यावत् प्रत्यक्ष प्रत्यक्षप्रमा, तत्करणमिन्द्रियं प्रत्यक्षप्रमाणमित्यर्थः, तत्सम्बन्धि प्रत्यक्ष सम्बन्धि प्रत्यक्षविषयविषयकमिति यावत् , वाकारः समुच्चयार्थकः, तस्य पुनरित्यर्थः, विरोधि प्रत्यक्षविरोधि, अनुमानस्य प्रत्यक्षविरोधश्च विभिन्नविषय कन्वं, तेन प्रत्यक्षाविषयविषयकमित्यर्थः, अनुमानं अनुमितिप्रमातत्करणं व्याप्तिज्ञानमनुमानप्रमाणं, तस्य