SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ दिवाकर कृता किरणावलीकालता चतुर्दशी वैशेषिकद्वात्रिंशिका। 347 An. .ro w .... ...- ~ स्वासाधारणजातोयपरमाण्वादितो भेदो विभिन्नविशेषलक्षणविरुद्धधर्माध्यासात् सिद्धति अयं परमाणुरेतस्मात् परमाणोभिन्नो भिन्नविशेषादित्यनुमानमत्र, विशेषास्तु नित्यद्रव्यगताः प्रतिव्यक्तिभिन्ना अनन्तास्ते स्वत एवान्योऽन्यं व्यावृत्ताः अनवस्थाभयात् तेषु विशेषान्तरानभ्युप्यगमात् जातिमतां परमाण्वादीनां किञ्चि. द्धर्मेणैव व्यावृत्तिरिति नियमाच्च स्वतो व्यावृत्तिन संभवतोति ईदृशविशेषपदा भ्युपगन्तृत्वादेव काणादानां वैशेषिक इति संज्ञेति, समवाय पदार्थस्त्वग्रेमूलकृता व्यक्तिकृत एव, कण्ठतस्तु कणादेन षण्णां भावानामेवाभिधानं कृतमिति तदनभि. धानेऽपि न न्यूनत्वम् , द्रव्यादिषदकान्योऽन्याभाववन्तश्चाभावाः प्रागभाव-ध्वंसात्यन्ताभावान्योऽन्याभावाश्चत्वारः, तत्रानादिः सान्तोऽभावः प्रागभावः, सादिरनन्तोऽभावो ध्वंसः तावुभौ प्रतियोगिसमवायिकारणवृत्ती, कयाले घटो भविष्यात, कपाले घटो नश्यतीत्येवं तयोरनुभवात्, तादात्म्यभिन्नसम्बन्धावच्छिन्नप्रतियोगिताको. ऽभावोऽत्यान्ताभावः, प्रागभाव-ध्वंसात्यन्ताभावानां संसर्गाभावतयोपगमान्नित्यसंसर्गाभावोऽत्यन्ताभाव इत्यपि तल्लक्षणं सम्भवति, तम्य प्रतियोगिना समं विरोधः संयोगेन घटवति भूतले संयोगेन घटो नास्तीति प्रतीत्यभवात्, तादात्म्यसम्बन्धविच्छिन्नप्रतियोगिताकोऽभावोऽन्योऽन्याभावः, तस्य प्रतियोगितावच्छेदकेन सह विरोधः घटो न घट इत्यप्रतीतेः, पटो न घट इन्येवं तत्प्रतीतेरिति बोध्यम् // 4 // प्रमाणाधीना प्रमेयसिद्धिरिति सर्वतन्त्रसिद्धान्तः यतश्चार्वाकोऽपि पृथिव्यादि. भूतचतुष्टयवादी प्रत्यक्षमेकं प्रमाणं स्वीकरोत्येव, ततो वैशेषिकः प्रत्यक्षमनुमानमिति प्रमाणद्वयं स्वीकरोति शब्दोपमानयोरनुमानगतार्थत्वेन न पृथक् प्रामाण्यम् , तत्र प्रत्यक्षमिन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानम् , इन्द्रियाणि च घ्राण-रसन-चक्षुस्-त्वक्श्रोत्र-मनोभेदेन षड्विधानि, तेषामर्थेन सह सन्निकर्षो लौकिकभेदेन द्विविधः, तत्र लौकिकसन्निकर्षः संयोग-संयुक्तसमवाय संयुत्त समवेत समवाय-मवायसमवेतसमवाय-विशेष्य-विशेषणभावभेदेन षड्विधः, तत्र चक्षुस्त्वग-मनोभिः द्रव्यप्रत्यक्षं संयोगाद् भवति चक्षुर्घाण रसन त्वग-मनोभिर्द्रव्यसमवेतप्रत्यक्षं संयुक्तसमवायाद् भवति, एभिरेव पञ्चभिर्द्रव्यसमवेतसमवेतप्रत्यक्षं संयुक्त समवेतसमवायाद् भवति, श्रोत्रेन्द्रियेण शब्दप्रत्यक्षं श्रोत्रसमवायाद् भवति, श्रोत्रेन्द्रियेण शब्दसमवेतशब्दत्वादिजातिप्रत्यक्षं श्रोत्रसमवेतसमवायाद् भवति, येनेन्द्रियेण यस्य भावस्य प्रत्यक्ष
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy