________________ 346 दिवाकरकृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिंशिका / ननु विभिन्नदेशस्थितगवादिव्यक्तिषु वर्तमानो गोत्वादिरन्तरालेऽपि घटादौ वर्तेत तथा च तत्रापि गवा दिव्यवहारः स्यादत आह-मध्यत्वावृत्तिलक्षणमिति अत्र 'मध्यस्थावृत्तिलक्षणम्' इति पाठो युक्तः / तस्य मध्यस्था गृत्तिलक्षणं भवति विभिन्नदेशव्यवस्थितगवादिव्यक्तिष्वेव गोत्वा दिर्वर्त्तते नान्तरालदेशेष्विति म तत्र गवादिव्यवहार प्रसङ्गः। ननु यदि सर्वदेशवृत्तित्वं सामान्यस्य नोपेयते तदा गोत्वरहिते देशे उत्पद्यमानायां गवि गोत्वस्य वृत्तिरेव न घटते, अन्यदेशावस्थित. गोव्यक्तिवर्तमानं गोत्वं न तां परित्यज्यात्रागच्छति तथा सति तस्या व्यक्तेरगोत्व. प्रसङ्गः न च सामान्यस्य गमनमपि स्वीक्रियते, तद्देशस्य गोत्वप्रसङ्गभयात् तद्देशे गोत्वमासीदेवेत्युपगमोऽपि न सम्भवति, तया गोव्यक्त्या. समं तदानीं गोत्वमप्यु. त्पन्नमित्यपि न वक्तुं शक्यं तस्य नित्यत्वैकत्वयोरुपगमात् , न चांशवत्त्वं तस्य समस्ति येनैकस्यापि तस्यैकांशे नेकव्यक्तावन्यांशेनान्यव्यक्ताववस्थितिः स्यात् , सांशत्वं चावयविद्रव्यत्वाभावान्न सम्भवत्यपि, पूर्वाधारं परित्यज्योत्तराधारावृत्तित्वे च पूर्वव्यक्तेरगोविप्रसङ्गो दुष्परिहर इति, तदुक्तम् .... "नायाति न च तत्रासीन्न चोत्पन्नं नवांशवत् / __ जहाति पूर्वं नाधारमहो व्यसनसन्ततिः // 2 // ' __ इति चेत्, न, जातेरन्तरालदेशे समवायेनैवावृत्तेरुपगमात् स्वरूपसम्बन्धेन जातीनां सर्वदेशवृत्तित्वं तेनान्तराल देशेऽप्यस्त्येव जातिः तस्य सम्बन्धस्य वृत्त्यनियामकत्वान्न तेन सम्बन्धेन जातेरन्तरालदेशे व्यवहार इति नाय तोत्यादि पराक्षेपानवकाश इति, अनुगतप्रतीतिनियामकतया सामान्यपदार्थव्यवस्थितौ व्यावृत्ति लक्षणभेदनिबन्धनतया विशेषपदार्थसिद्धिरप्याक्षेपालभ्यत इति विशेषपदार्थानभिधाननिबन्धनमूलान्यूनत्वदोषानवकाशः विशेषपदार्थसिद्धिस्त्वेवम् वस्तूनां भेदनिबन्धनं विरुद्धधर्माध्यासः घट-पटादीनां घटत्व-पटत्वादिलक्षणविरुद्धधर्माध्यासाद् घटः पटाद् भिन्नः पटावृत्तिघटत्ववत्त्वात् पटो घटात् भिन्नो घटावृत्तिपटत्ववत्त्वादित्यनुमानेन घट-पटादीनां भेदः सिध्यति घटत्वाद्यकैकजातीयानां घटादीनां स्वासाधारणजातीयाद् भेदो भिन्नावयवाग्भ्यत्वलक्षण विरुद्धधर्माध्यासात् यथाऽयं घट एतस्माद् घटाद् भिन्नो भिन्नकपालारभ्यत्वादित्येवं द्वयणुकपर्यन्तं परसरं भेदः सिद्धयति निरवयवानां परमाणूनामन्येषामप्यसाधारणजातीयानां नित्य द्रव्याणां च