SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ दिवाकर कृता किरणावलोकलिता त्रयोदशी सांख्यप्रबोधद्वात्रिशिका। 345 द्रव्यत्वपृथिवीत्वादिक परापरसामान्य द्रव्यत्वं हि पृथिव त्वाद्यपेक्षयाऽधिकदेशवृत्ति, सत्तापेक्षयाऽल्पदेशवृत्ति च भवति, एवं पृथिवीत्वादिकं घटत्वाद्यपेक्षयाऽधिकदेशवृत्ति द्रव्यत्वाद्यपेक्षयाऽल्पदेशत्ति च भवतीत्यादि वैशेषिकप्रक्रियाऽवसेया, ननु द्रव्यं सदिति बुद्धिरेकद्रव्यव्यक्तिमुपादायोपपद्यमानानुगतबुद्धिः तत् कथं तुल्यप्रत्ययदर्शनमत आह-अन्यतोऽन्येषु सापेक्ष्यः इति सत्तादिर्भावः अन्यतः द्रव्यभिन्नगुणादिपः अन्येषु गुणादिभिन्नद्रव्यादिव्यक्तिषु सापेक्ष्यः द्रव्ये सद्बुद्धिः गुणादिष्वपि सद्बुद्धिरित्येवं नानाद्रव्य-गुण-कर्मव्यक्तिषु सद्बुद्धिर्यदि भवेत् तदैव सदंशमुपादायानुगतबुद्धिस्ततः सा सत्तैकविषया सती सत्ता जातिसाधिका, गुणादिषु सद्बुद्धिर्यावन्न भवति तावद् द्रव्यमात्रे सा भवन्ती न द्रव्य-गुण-कर्मव्यापिन्याः सत्तायाः साधिका, एवमेकद्रव्ये इदं द्रव्यमिति प्रतीतिर्न नवद्रव्यानुगतद्रव्यावसाधिका, किन्त्वेकस्मिन् द्रव्ये इद द्रव्यमिति तथाऽपरस्मिन्नपि द्रव्ये इदं द्रव्यमिति तदा तुल्यप्रत्ययदर्शनमिति ततो द्रव्यत्वसिद्धिरित्येवं घटत्वादिरप्यतोऽन्येषु सापेक्ष्य इति, अथवाऽनुगतबुद्धिरतद्वयावृत्तिविषयकत्वेनैवोपपद्यते किं जातिकल्पनया तद्यथा इदं सदिदं सदित्यनुगतबुद्धिः सद्भिन्नभिन्नत्वविषयिणी एवम् घटोऽयं घटोऽयमित्यनुगतबुद्धिघंटभिन्नभिन्नत्वविषयिणीत्येवं सर्वानुगतबुद्धरतद्वयावृत्तिविषयकत्वेनैवोपपत्तौ कि जातिकल्पनयेति बौद्धाशङ्काप्रतिविधानायाह-अन्यतोऽन्येषु सापेक्ष्य इति इयं गौरियं गौरित्यनुगतबुद्धिविषयो गोभिन्नभिन्नत्वं यदि गोभिन्ननिष्ठप्रतियोगिताकमेदवत्वं तदा गोभिन्नाश्वनिष्टप्रतियोगिताकभेदवत्त्वस्य घटादिष्वपि भावात् तत्रापीयं गौरितिप्रतीतिः स्यात् , यदि च गोनिष्ठप्रतियोगिताकमेदवत्त्वावच्छिन्न प्रतियोगिताकमेदबत्त्वं तदा यत्किञ्चिद् गोनिष्ठप्रतियोगिताकभेदक्त्त्वस्य चालनीन्यायेन गोमात्रे सत्त्वात् तस्य केवलान्वयित्वेन तदवच्छिन्नप्रतियोगिताकमेदाप्रसिद्धया गव्यप्ययं गौरित्यनुगतप्रतीतिनं भवेत् , यदि च गोत्वावच्छिन्नप्रतियोगिताकमेदवत्त्वावच्छिन्नप्रतियोगिताकभेदवत्त्वावच्छिन्नप्रतियोगिताकमेदवत्त्वं तदा तत्रापि गोत्वं यदि गोभिन्नभिन्नत्वं तदोक्तदोषभयात् तद्गोत्वावच्छिन्नप्रतियोगिताकमेदवत्त्वावच्छिन्नप्रतियोगिताकमेदवत्त्वमेव वक्तव्यमित्यनवस्था, तद्भवाद् विधिरूपमेव गोत्वं तत्प्रविटमुपेयमिति, अन्यतो गोभिन्नतो भिन्नेषु अपेक्ष्यो योगो भेदस्तेन सहितो गोत्वादिरिति सापेक्ष्य इत्यकामेनापि परेण गोत्वादिविधिरूपोऽभ्युपेय इत्यर्थः /
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy