SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ 344 दिवाकरकृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिंशिका / अन्यत इति। “तुल्यप्रत्ययदर्शनाद् द्रव्यादिभावः सत्तादिरन्यतोऽन्येषु सापेक्ष्यः, . मध्यत्वावृत्तिलक्षणम्" इत्यन्वयः / कार्यकारणभावावच्छेदकतया सामान्यं सिद्धयति यथा कार्यत्वावच्छिन्नसमवायसम्बन्धावच्छिन्न कार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणता किञ्चिद्वर्मावच्छिन्ना कारणतात्वाद्या या कारणता सा किञ्चिद्धर्मावच्छिन्ना यथा. दण्डादिनिष्ठकारणता घटादिनिष्ठकार्यता निरूपिता दण्डत्वाद्यवच्छिन्नेत्येवमनुमानेन द्रव्यत्वादिजातिः सिद्धयति एवं तृणादिनिष्ठकारणता निरूपित. कार्यतावच्छेदक्तया वयादिगतानां वह्नित्वावान्तरसामान्यत्रयाणां सिद्धिः, यतो वह्निसामान्य प्रति व्यभिचारेण तृणादीनां कारणत्वं न सम्भवतीति, पारिजाण्डल्यभिन्नानामेव गुणानां केषाञ्चिदसमवायिकारणत्वं केषाञ्चिन्निमित्तकारणत्वम् अन्यूनानति प्रसक्तधर्मस्यैव कारणतायाः कार्यताया वाऽवच्छेदकत्वमिति गुणत्वं न कस्या अपि कारणतायाः कार्यताया वा अन्यूनानतिप्रसक्तमिति न कारणतावच्छेदकतया कार्यतावच्छेदकतया वा गुणत्वजातिः सिद्धति, किन्तु चतुर्विंशतिगुणेषु या गुणशब्दप्रवृत्तिस्तन्निमित्ततया गुणत्वजातिः सिद्धयति, प्रवृत्तिनिमित्तत्वं च वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितिप्रकारत्वमिति अनुगतप्रत्ययं विषयतया च जातिः सिद्धयति, यथा विभिन्नाकारेषु प्रत्ययेषु अयं घटोऽयं पटोऽयं मठ इत्यादिषु विभिन्ना घट-पट-मठादयो विषयाः तथा द्रव्यं सत्, गुणः सन्, कर्म सदिति तुल्यः सत्सदिति प्रत्ययो व्यक्तीनां द्रव्य-गुण-कर्मणां भिन्नत्वेऽपि भवतीति तद्विषयम् एकं सामान्यमभ्युपेयमिति सत्तासामान्यसिद्धिः एवं घटत्व-पटत्वादिद्रव्यत्व-गुणत्वादिजातीनां सिद्धिस्तुल्यप्रत्ययविषयतयेत्यभिसन्धानेनाह-तुल्यप्रत्ययदर्शनात् सन् सन्नित्येकाकारप्रतीतिदर्शनात् , तादृशप्रतीतेरनुभूयमानत्वेनापलापो न शक्यते कर्तमित्यावेदनाय दर्शनपदोपादानं, द्रव्यादिभावः द्रव्यादीनां द्रव्य-गुण-कर्मणां तदवान्तरव्यक्तीनां पृथिव्यादि-रूपाद्युत्क्षेपणादीनां च भावः सामान्यम् , सत्तादिः सत्ता-द्रव्यत्व-गुणत्व-कर्मत्व पृथिवीत्वादि-रूपत्वादि-उन्क्षेपणत्वादिः, एतेन सामान्य त्रिविधं परसामान्यमपरसामान्यं परापरसामान्यं चेति तत्र परत्वमधिकदेशवृत्तित्वं सर्वापेक्षयाऽधिकदेशवृत्तित्वात् सत्ता द्रव्य-गुण-कर्मव्यापिनी परसामान्यम् , अपरत्वमल्पदेशवृत्तित्वं सर्वापेक्षयाऽल्पदेशवृत्तित्वाद् घटत्व-पटत्वादिकमपरसामान्यं, किञ्चिदपेक्षयाऽधिकदेशवृत्तित्व-किञ्चिदपेक्षयाऽल्पदेशवृत्तित्वाभ्यां
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy