________________ दिवाकरकृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिंशिका / 3.3 वृत्तिध्वंसप्रतियोगित्वं बौद्धसम्मतम् , एकक्षणमात्रस्थायित्वस्य वैशेषिकमते कुत्राप्यनभ्युगमात, प्रथमक्षणे कर्म, ततो द्वितीयक्षणे विभागः, ततस्तृतोयक्षणे पूर्वसंयोगनाशः ततश्चतुर्थक्षणे उत्तरसंयोगः ततः कर्मनाशः इति स्वोत्पत्तिपञ्चभक्षणवृत्तिध्वंसप्रतियोगित्वं स्वकार्योत्तरसंयोगोत्पत्त्यधिकरणक्षणाव्यवहितोत्तरक्षणवृत्तिध्वंसप्रतियोगित्व पर्यवसितं क्षणिकत्वं कर्मणः, एवं च हस्तसंयोगादिप्रभवाद्यक्षणकर्मणों क्षण-लक्ष्यप्राप्तिकालपर्यन्तस्थायित्वःसंभवाद् द्वितीयादिकर्माभ्युपगम आवश्यक इत्यर्थः, ननु भवतु कमैकद्रव्यक्षणस्थितिकं तदेवोत्तरसंयोगानन्तरं कर्मान्तरमुत्पाद्य विनश्यतीति किं वेगाख्यसंस्कारस्य तत्कारणतया परिकल्पनेनेत्यत आह-कर्मेति कार्यविरोधिविनाशकं यस्य तत् कार्यविरोधि कर्म, स्यात् भवेत् उत्तरसंयोगलक्षणकार्येण कर्मावश्यं विनश्यतीति न तदनन्तरं ततः कर्मान्तरसम्भवः, कर्मणश्च कर्मान्तरं प्रति प्रतिबन्धकत्वमेवोपेयत इति न कर्मसद्भावक्षणेऽपि कर्मान्तरोत्पत्तिसम्भव इत्यर्थः, गुणः किमेकद्रव्यक्षणस्थितिः किं वाऽनेकद्रव्यक्षणस्थितिः, तथा, कार्यविरोधि कार्यविरोधि किं वा कार्याविरोधीत्याकाङ्क्षायामाह-उभयोभयथा गुणः उभयस्य एकद्रव्यक्षणस्थिति कार्यविरोधीत्युभयस्योभयथा एकद्रव्यक्षणस्थित्यनेकद्रव्यक्षणस्थित्युभयप्रकारः कार्यविरोधि-कार्याविरोधीत्युभयप्रकारः, गुणः यथा रूप-रस-गन्ध-स्पर्शेकत्व-सङ्ख्या-परिमाणै कपृथक्त्वैकपरत्वैकापरत्वबुद्धि-सुखदुःखेच्छा-द्वेष-प्रयत्न गुरुत्व-द्रवत्व-स्नेह-संस्कार-धर्माधर्मशब्दाः एते गुणा एकैका एकद्रव्यस्थितयः, द्वित्वादिसङ्ख्या द्विपृथकत्वादिसंयोग-विभाग-द्विपरत्वापरत्वानि एते गुणा अनेकद्रव्यस्थितयः, योग्यविभुविशेषगुणाः क्षणिकाः अन्ये गुणा अक्षणिकाः योग्यविभुविशेषगुणाः कार्यविरोधिनः अन्ये कार्याविरोधिन इत्यर्थः // 3 // वैशेषिकसूत्रे द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायानां षण्णां पदार्थानां कण्ठतः साक्षात् तत्त्वतयाऽभिधानं सप्तमस्त्वभावपदार्थः साक्षात् तत्त्वतया नोक्तः किन्तु कारणाभावात् कार्याभावः इत्यादिसूत्रत आक्षेपालभ्यते इति तत्र त्रयाणां द्रव्य-गुणकर्मणां भावना सामान्यतः कृता, चतुर्थसामान्यपदार्थ भावयति अन्यतोऽन्येषु सापेक्ष्यस्तुल्यप्रत्ययदर्शनात् / द्रव्यादिभावः सत्तादिमध्यत्वावृत्तिलक्षणम् // 4 //