________________ 342 दिवाकर कृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिंशिका / कत्वम् ‘गुणाश्च गुणान्तरम्' इति सूत्रेण गुणस्य गुणारम्भकत्वं वैशेषिकाभिमतम् 'कर्म कर्मसाध्यं न विद्यते' इति सूत्रेण कर्मणः कर्मारम्भकत्वं निषिद्धमित्याशयेनैवकारोपादानं, गुणेष्वेव संयोग-विभागलक्षणगुणेष्वेव कर्म उत्क्षेपणाक्षेपणाकुचनप्रसारण-गमनभेदेन पञ्चविधं कर्म कारणम् , इति एवम् , आरम्भनिश्चयः द्रव्यगुण-कर्मणामारम्भकत्वस्य निर्णयः // 2 // यदि कर्म न कर्मारम्भकं तहिं इषोराद्यं कर्म हस्तसंयोगादितो भवतु नाम द्वितीय-तृतीयादिकं यावल्लक्ष्यप्राप्तिजनकं कुतः स्यादित्याह आह संस्कारेण तदापेक्ष्यमेकद्रव्यक्षणस्थितिः / कर्म कार्यविरोधि स्यादुभयोभयथा गुणः // 3 // संस्कारेणेति / संस्कारेण येन स्थितिस्थापकभावनाभेदात् त्रिविधः संस्कारः तत्र भावनाख्यसंस्कार आत्मवृत्तिः उपेक्षानात्मकनिश्चय प्रभवः अनुभव. व्यापारतया स्मृतिजनकः, स्थितिस्थापकसंस्कारश्व कटादिपृथिवीवृत्तिः वेगाख्यसंस्कारश्च पृथिवी-जल-तेजो व यु-मनोवृत्तिरिति प्रकृते वेगाख्यसंस्कारेण, तदापेक्ष्य तत् कर्म, आसमन्ताद् अपेक्ष्यम् अपेक्षणीयं, यद्यपि द्वितीय-तृतीयकर्मादिकं वेगाख्यसंस्कारादेव भवति तथा वेगाख्यसंस्कार एव तावन्न भवेद् य वत् तत् कारणीभूतं कर्म न स्यादित्याद्यकर्म हस्तादिसंयोगप्रभवं ततो वेगाख्यसंस्कार स्ततो द्वितीयं कर्म ततो वेगाख्यसंस्कार इत्येवं शरपातपर्यन्तं सान्तरितकर्मवेगधारा प्रवर्तत इति कर्मणः कर्मानारम्भकत्वेऽपि न द्वितीयादिकर्मानुपपत्तिः, ननु हस्तादिसंयोगादुत्पन्नं कमव शरस्यालक्ष्यप्राप्तिमनुवर्तत इति द्वितीयादिकर्माभावात् तदारम्भविचारो नादरणीय इत्यत आह-एकद्रव्यक्षणस्थितिः अत्र 'स्थितिः' इत्यस्य स्थाने 'स्थिति' इति पाठो युक्तः। एकद्रव्यक्षणयोः स्थितिर्यस्य तदेकद्रव्यक्षणस्थिति, गुणेषु रूपादयो गुणा एकस्मिन् द्रव्ये वर्तन्ते द्वित्वादिसंख्याद्धि पृथक्त्वादिसंयोग विभागादयश्चानेकद्रव्यवृत्तयः, कर्म त्वेकमेकस्मिन्नेव द्रव्ये वर्तत इत्येकद्रव्यस्थिति, गुणेषु रूपादयो न क्षणस्थितिकाः, किन्तु कियकालस्थितिका नित्याश्च योग्यविभुविशेषगुणाः शब्दज्ञानादय एव क्षणिकाः कर्म त्वखिलं क्षणिकमिति क्षगस्थिति, क्षगस्थितिक वं प्रकृते न स्वो पत्तिक्षणाव्यवहितोत्तरक्षण.