SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ दिवाकर कृता किरणावलीकलिता चतुर्दशी वैशेषिकद्वात्रिंशिका / 341 द्रव्य-गुगादिकं कया रीत्या कारणमित्याकाङ्क्षायामाहद्रव्यमाधारसामर्थ्यात् स्वातन्त्र्यसंभवाद् गुणः / आनन्तर्याद् गुणेष्वेव कर्मेत्यारम्भनिश्चयः // 2 // द्रव्यमिति / द्रव्यं पृथिवी-जल-तेजो वाय्वाकाश-काल-दिगात्म-मनोभेदेन नवविधम् , आधारसामर्थ्यात् निराधारं कार्य नोत्पद्यत इति यत् किमपि कार्य तत् कस्मिन्नप्याधार एवोत्पद्यते भावकार्यमानं समवायेन द्रव्य एवोत्पद्यत इति भावकार्यमात्रस्य समवायेनाधारो द्रव्यमिति आधारस्याधिकरणस्य कार्य प्रति सामर्थ्यात् तथा च समवायसम्बन्धावच्छिन्नभावकार्यत्वावच्छिन्न कार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणतालक्षणसमवायकारणत्वात् समवायिकारणं द्रध्यमिति एवं चावयविद्रव्यं घटादि अवयवद्रव्ये कपालादौ समवायेनोत्पद्यत इत्येवं द्रव्यस्य द्रव्यं कारणं, तथा रूपादयो गुणाः समवायेन स्वाधारे पृथिव्यादौ द्रव्ये समुत्पद्यन्त इति पृथिव्यादिव्यं स्वीयरूपादिगुणानां समवायिकारणम्, एवं कर्मापि समवायेन पृथिव्यादिद्रव्य एव समुत्पद्यत इति पृथिव्यादिद्रव्यं स्वगतकर्मणः समवायिकारणमिति, गुणः रूप-रस-गन्ध-स्पर्श-संख्या-परिमाण-पृथक्त्व संयोग-विभाग-परत्व! परत्व बुद्धिसुख-दुःखेच्छा-द्वेष-प्रयत्न-गुरुत्व-द्रवत्व-स्नेह-संस्कार-धर्माधर्मशब्दभेदेन चतुविशतिभेदो गुणः, स च स्वातन्त्र्यसम्भवात् कारणं जन्यद्रव्ये असमयायिकारणविधया अनन्यथासिद्धत्वलक्षणस्वातन्त्र्यसम्भवाद् अवयवद्रव्य संयोगलक्षणो गुणः क रणम्, पाकजरूपरस-गन्ध-स्पर्शेषु अग्निसंयोगः कारणम् , अपाक जरूप रस गन्ध-स्पर्शेष्ववयविगतेषु अवयवगतरूप-रस-गन्ध-स्पर्शाः कारणानि, एवनन्यगुणेष्वपि जन्येषु गुणा अन्यथासिद्धत्वलक्षणस्वातन्त्र्यात् कारणानि, तत्रासमवायिकारणत्वं समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायस्वसमवायिसमवे-तत्वसम्बन्धावच्छिन्नकारणताशालित्वे सत्यात्मविशेषगुणभिन्नत्वम्, ज्ञानाद्यात्मविशेषगुणानां कुत्राप्यसमवायिकारणत्वं नास्ति किन्तु निमित्तकारणत्वमेवेत्य समवायिकारणत्व लक्षणे तद्भिन्नत्वमुपात्तम् , आनन्तर्यात् संयोगविभागाद्यव्यवहितपूर्ववर्तित्वात् , 'गुणेष्वेक.' इत्यस्य स्थाने 'गुणेष्वेव.' इति पाठः समीचीनः / गुणेष्वेव कर्मत्यारम्भनिश्चयः एवकारेण कर्मणो व्यवच्छेदः, 'द्रव्याणि द्रव्यान्तरमारभन्ते' इति सूत्रेण द्रव्यस्य द्रव्यारम्भ
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy