________________ चतुर्दशी वैशेषिकद्वात्रिंशिका ! ये ये वाणीप्रकारा निज-परमतयोस्तत्त्वबोधप्रगल्भाः ते नूनं श्रीजिनास्योदितनयविषयोल्लासनायै प्रवृत्ताः / तस्मादेकान्तपङ्काकलुषितधिषणैस्तत्त्वतः स्तूयमानं श्रीवीरं नौमि भक्त या स्तुतिविवृतिरतोऽहं स्वबोधैकचित्तः // 1 // वैशेषिकमतीपदर्शिकां चतुर्दशी द्वात्रिंशिकामारभमाणः स्तुतिकारः तन्मते कार्यसामान्यकारणं तावदवधारयति धर्माधर्मेश्वरा लोकसिद्धचपायप्रवृत्तिषु / द्रव्यादिसाधनावेतौ द्रव्याद्या वा परस्परम् // 1 // धर्माधर्मेश्वरा इति / लोकसिद्धयपायप्रवृत्तिषु लोक्यते अवलोक्यते इति लोको घटादिः तस्य सिद्धिरुत्पादः अपायो विनाशस्तद्विषयकव्यवहारेषु भाग्योदयोदयं सुखहेतुर्मम समुत्पन्न: अकाल एवायमभाग्योदयाद् विनष्टः, ईश्वर एव यथेच्छति तथा कस्यचिदुत्पादो विनाशो वा भवतीतीश्वर एव कार्य जातस्योत्पादे विनाशे च कारणमित्यादिषु लोकानामुत्पाद-विनाशव्यवहारेषु, धर्माधर्मेश्वराः धर्मः सुखतन्निमित्तजनकमदृष्टं यद्भाग्यं दैवमिति च कथ्यते, अधर्मो दुःखतन्निमित्तजनकमदृष्टं यदभाग्यं दैमिति च व्यवह्रियते, ईश्वरो नित्यज्ञानेच्छायत्नवान् विश्व. कर्ता एते प्रसिद्धा इति शेषः, तत् किं कार्यमात्रोत्याद-विनाशयोरेते एव साधनं कि वाऽन्यदपीत्यकाङ्क्षायामाह-द्रव्यादिसाधनावेतौ द्रव्यादिसाधनं कारणं ययोस्ती द्रव्यादिसाधनौ द्रव्यादिकारणको, एतौ सिद्धयपायौ उत्पाद-प्रलयाविति यावत् , तथा च धर्माधर्मावदृष्टतया ईश्वरश्च कर्ततया कार्यसामान्ये साधारण कारणम् , द्रव्यादिकं चासाधारणकारणम् , साधारणकारणत्वं च कार्यत्वावच्छिन्नकार्यतानिरूपितकारणताशालित्वम् , असाधारणकारणत्वं च कार्यत्वव्याप्यधर्मावच्छिन्नकार्यतानिरूपितकारणताशालित्वमिति विवेकः, वा अथवा, द्रव्याद्याः द्रव्य-गुण-कर्माणि, परस्परं अन्योऽन्य कारणं, द्रव्यस्य जन्यस्य कारणं गुणः जन्यस्य गुणस्य कारणं द्रव्यं, कर्मणः कारणं द्रव्यं गुणश्च कर्म च गुणस्य संयोगादेः कारणमित्यर्थः / / 1 / /