________________ दिवाकरकृता किरणावलीकलिता त्रयोदशी सांख्यप्रबोधद्वात्रिशिका / 337 केवलज्ञानाविर्भावतः प्राक् यत् किमपि भवति तदविचारितरमणीयमित्या. शयेनाह भयं संबोधनं लिङ्ग किशोरपाजनो यमः। न हि विज्ञान-चैतन्यनानात्वं पाक समिध्यते // 29 // भयमिति / भयं शत्रुतो भयं, व्याघ्रादितो भयं, यमाद् भयमित्येवं भयम्, संबोधनम् गुरुणा शिष्यस्य संबोधनम्, मित्रादिना सह संलापादिकं च, लिङ्गं स्त्री-पुं-नपुंसकेतिविविक्तलिङ्गं, :किशोरप्राजनो यमः बालक्रीडासहशक्रीडो मृत्युः, विज्ञान-चैतन्यनानात्वं विज्ञानस्य चैतन्यस्य च परस्परं भेदः, प्राक पूर्वावस्थायां केवलोत्पत्तितः प्रागिति यावत्, न हि समिध्यते समिद्धो न हि भवति, अत्र न हीति काका समिध्यत एव किन्तु केवलज्ञाने सति भयादिकं सर्व विलीयत इत्यर्थः // 29 / / केवलज्ञानोत्पत्तितः पूर्व यः कश्चित्. केवलशब्देनोच्यते स केवलाविर्भावानन्तरं नश्यत्येवेत्याह यस्तु केवलवाचादौ यायादृष्टार्थविक्रमैः / विकृष्टेषुरिव क्षिप्तः तमोऽम्भसि स नश्यति // 30 // यस्त्विति / 'याया' इत्यस्य स्थाने 'माया' इति पाठो युक्तः / मायादृष्टाथविक्रमैः माययाऽविद्ययाऽज्ञानेन दृष्टः अवलोकितः अर्थविक्रमः अर्थानां विषयाणां पराक्रमो यैस्ते मायादष्टार्थविक्रमाः तैः, आदौ केवलज्ञानात् प्रथमम्, केवलवाचा केवलशब्देन, तमोऽम्भसि अज्ञानरूपपयसि, यस्तु यः कश्चित् पदार्थः, क्षिप्तः भयं पदार्थः केवलशब्दवाच्य इत्येवं निर्णयलक्षणक्षेपविषयः कृतः, स कल्पितोऽर्थः, विकृष्टेषुरिव विशेषेण शरासनाकृष्टो बाणो यथाऽतिदूरं गत्वा पतति तस्यादर्शनमेव नाशः तथा, नश्यति केवलज्ञानोत्पत्तौ सत्यां सोऽर्थो न भवत्येव केवलवाच्य इत्यर्थः // 30 // साङ्ख्यमतमुपहसन्नाह.. अहो दुर्गा गुणमतिः दुर्ग मोक्षाय नाम यत् / कथञ्चिदेव मुञ्चन्ति स्वपन मन्दाभिसातिकः // 31 //