________________ 336 दिवाकरकृता किरणावलीकलिता त्रयोदशी सांख्यप्रबोधद्वात्रिंशिका / केवलज्ञानस्याविशेषेऽपि उपभोग्यानां कर्मणामसमानकालोपभोग्यानामुपभोगवैचित्र्यात् तदर्थानां प्रवृत्तीनां वैचित्र्यमित्याशयेनाह शेषवृत्ताशयवशात् साम्यप्रकृतिभेदवत् / समानप्रतिबोधानामसमानाः प्रवृत्तयः // 27 // शेषवृत्ताशयवशादिति / शेषवृत्ताशयवशात् शेषोऽवशिष्टो वृत्तः सत्त्वादिगुणपरिणामो यस्य स शेषवृत्तः, एवम्भूतो य आशयः आशेरतेऽस्मिन् फलानीति आशयो धर्माधर्मलक्षणः पूर्वसञ्चितः वत्तमानभवोपजातश्च तस्य वशात् अवश्योपभोगत्वलक्षणसामर्थ्यात्, साम्यप्रकृतिमेदवत् समस्वभावानामपि यथा स्वस्वकर्तव्यमेदाद् भेदस्तथा, समानप्रतिबोधानां तुल्यज्ञानानाम् , असमाना परस्परविलक्षणप्रकाराः, प्रवृत्तयः यत्नाः भवन्तीत्यर्थः // 27 // केवलज्ञानिनोऽपि प्रारब्धशुभाशुभकर्मोपभोगविषयीभूतसुखमात्रत्वाद् दुःखमात्रत्वाद् वा शुद्धं सुखसम्भिन्नदुःखरूपं दुःखसम्भिन्नसुखरूपं शिलष्टं वा निरीहस्य केवलिनोऽसम्भवात् किं न भवत्येव भवदपि गुणैकस्वरूपस्य पुरुषाद् भिन्नतयैवाधिगतस्य प्रधानपरिणामस्य महतोऽपि कृतार्थस्य तत्र सम्भवतीत्यत आह किमत्र शुद्धं श्लिष्टं वा किंवा कस्य प्रयोजनम् / कृतार्थानां गुणेष्वेव गुणानामिति जायते // 28 // किमत्रेति / अत्र केवलिनि, किं शुद्धं किं सुखादिकं प्रयोजनं शुद्धम् अन्यामिश्रितम् , वा अथवा, श्लिष्टं अन्यसम्भिन्नं, किं वा अथवा किं स्वरूपम्, कस्य प्रयोजनम् पुरुषस्य गुणस्य वा प्रयोजनम्, अत्र सर्वत्र कि शब्द आक्षेपे, न कस्यचिद् किञ्चिच्छुद्धं क्लिष्टं वा प्रयोजनं वस्तुगत्या समस्तीति तदर्थः, किन्तु चक्रभ्रमिवत् कञ्चित् कालं संस्कारवशात् तत्प्रयोजनं गुणानामेव, गुणेष्वेव भवतीत्याह-कृतार्थानामिति पुरुषस्य बन्ध-मोक्षौ गुणानां कर्त्तव्यौ तौ सम्पन्नाविति कृतार्थानां गुणानाम्, इति एतस्मात् कारणात्, गुणेष्वेव चक्रभ्रमिवत् संस्कारवशाच्छुद्ध-शिलष्टपरिणामं भवत्सु गुणेष्वेव, जायते शुद्धं क्लिष्टं वा प्रयोजनं जायत इत्यर्थः // 28 //